#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00005 Uniform title: āṣṭaprakaraṇa bhogakārikā Main title: āṣṭaprakaraṇam bhogakārikā Secondary title: From ratnatraya bhogakārikā nādakārikā mokṣakārikā paramokṣanirāsakārikāḥ Author : sadyojyoti Commentator : aghoraśiva Editor : kṛṣṇa śāstrī Description: E-text of the bhogakārikā from the ratnatraya bhogakārikā nādakārikā mokṣakārikā paramokṣanirasakārikāḥ in the devakottai series. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark Dyczkowski. Revision 0: December 11, 2007 Publisher : śivāgama siddhānta paripalana saṅgham Publication year : 1925 Publication city : Publication country : India #################################################### सद्योज्योतिःशिवाचार्यप्रणीता अघोरशिवाचार्यकृतवृत्तिसहिता शिवं प्रणम्य सद्भोगमोक्षदं मन्दचेतसाम् | हिताय लेशतः स्पष्टं व्याख्यास्ये भोगकारिकाम् || इह हि तत्रभवद्भिः सद्योज्योतिष्पादैः प्रकरणप्रतिपाद्यमानं भोगमोक्षात्मकमर्थं सूचयद्भिस्तस्यैवाऽविघ्नपरिसमाप्त्यर्थं प्रथमं परमशिवनमस्कारः क्रियते- त्रिबन्धिचित्कलायोगभोगविश्लेषमोक्षदम् | सर्वकालक्रमार्थज्ञं प्रणम्याजं शिवं ध्रुवम् || १ || त्रयो बन्धाश्च मलकर्ममायालक्षणास्ते विद्यन्ते येषां ते त्रिबन्धिनः, तेषां त्रिबन्धिनां सकलाख्यानां चितामात्मनां योऽयं कलायोगः सूक्ष्मदेहारम्भककलादिपृथ्व्यन्ततत्त्वात्मकै-स्तत्तद्भुवनजदेहरूपैश्च मायीयैरवयवैः संबन्धः, तेन भोगं तद्विश्लेषेण मोक्षं च यो ददाति, तं तादृशम् | अनेन शिवस्यानादिमुक्तत्वेन सर्वाऽनुग्राहकत्वं सर्वकर्तृत्वं च सूच्यते | अत एव च- सर्वकालक्रमार्थज्ञम् | सर्वं च भूतादिरूपं कालक्रमं सर्वांश्च तत्तत्कालभाविनः पदार्थान् जानातीति | एतेन चाऽस्य निर्मलत्वात् सर्वकर्तृत्वाच्च सार्वकालं सर्वज्ञता प्रतिपाद्यते | किञ्च, अजम् अमलत्वादेव शरीरादिसंबन्धात्मनाऽपि जन्मना रहितं | ध्रुवं चाविकारिणम् | न तु बिन्द्वादिवत् परिणामित्वम्, विकारित्वे जडत्वप्रसङ्गात् | शिवं प्रणम्य भोगमोक्षौ वच्मीति वक्ष्यमाणेन संबन्धः || १ || रुरुसिद्धान्तसंसिद्धौ भोगमोक्षौ ससाधनौ | वच्मि साधकबोधाय लेशतो युक्तिसंस्कृतौ || २ || साधयन्ति भोगमोक्षाविति साधका आचार्यादयः, तेषां दीक्षादौ तत्साधनादिज्ञानाय युक्त्या अनुमानेन, संस्कृतौ प्रतिपादितौ, श्रीमद्रौरवतन्त्रोपलक्षितसिद्धान्तशास्त्रे सिद्धौ ससाधनौ भोगमोक्षौ रौरवानुसारेणैव संक्षेपाद् वदामि || २ || तत्र तावत् सत्साधनं भोगं दर्शयितुं भोगाधिकारः केषामित्यत आह- अञ्जनादीशनुन्नानां जायते भोगलोलिका | कर्माशयानुरूपेण चिद्वतां भवमण्डले || ३ || मलिनत्वादीशेनाधिकारावस्थेन शिवेनानन्तादिद्वारेण नुन्नानां भोगाऽभिमुखीकृतानामात्मनाम्, अञ्जनान्मलादेव हेतोः, संसारमण्डले कर्मसंस्कारपाकानुगुणं भोगलोलिका भोगेच्छा जायते | ननु निर्मल एवाऽऽत्मा सांख्यैरभ्युपगतः, तदयुक्तम्, निर्मलस्य भोगासक्त्यसम्भवात्, तत्संभवे वा मुक्तस्यापि प्रसङ्गात् | ननु रागनिबन्धनाऽऽसक्तिरिष्यते, सत्यम्, रागोऽपि मलिनस्यैवासक्तिहेतुः | यदुक्तं श्रीमत्स्वायंभुवे- यद्यशुद्धिर्न पुंसोऽस्ति सक्तिर्भोगेषु किं कृता इति || ३ || अथ कोऽसौ भोगः, कै साधनैः साध्यते ? इत्यत आह- ईश्वरेच्छासमाविष्टजगद्बीजपरिच्युतैः | साधनैः साध्यते भोगो बुद्धिवृत्त्यनुरञ्जनः || ४ || ईश्वरोऽत्रानन्त एव, तस्यैव मायाक्षोभकत्वात् | यदुक्तं श्रीमत्किरणे- शुद्धेऽध्वनि शिवः कर्ता प्रोक्तोऽनन्तोऽसिते प्रभुः (वि० ३|२७) इति | तदिच्छया क्षुब्धं यज्जगद्बीजं मायाख्यम्, तस्मात् प्रसूतैरधारणैः सूक्ष्मदेहात्मकैः साधारणभुवनादिरूपैः साधारणाऽसाधारणभुवनजदेहात्मभिश्च यः साधनैर्भोगो निष्पाद्यते, स च बुद्धिवृत्त्यनुरञ्जनात्मकः | बुद्धिवृत्त्या सुखदुःखमोहाध्यवसायरूपया आत्मचैतन्यस्य यदनुरञ्जनं स एव भोगः | अनुरागश्चात्र सुखाध्यवसायाकारबुद्धिवृत्तिनिष्ठतया तत्संवित्तिस्तदनुभव एव, न तु प्रतिबिम्बात्मताऽऽत्मनः, परिणामिताप्रसङ्गात् | तदुक्तं श्रीमत्स्वायम्भुवे- भोगओऽस्य वेदना पुसः सुखदुःखादिलक्षणा इति || ४ || तत्र भूतानां तावद्भोगसाधनतां प्रतिपादयति- क्ष्माजलाग्निमरुद्व्योम्नां गुणवृत्त्यक्षभूमिताः | स्वमात्रापूरपुष्टानां गमयन्ति तदङ्गताम् || ५ || अत्र पृथिव्यादीनां भूतानां ये गुणादयस्त एव तेषां भोगाङ्गतां साधयन्ति | तत्र गुणा गन्धादयः | वृत्तयस्तु धारणादयः | अक्षभूमिता चेन्द्रियाधारत्वम् | एतान्यप्यनन्तरमेव दर्शयिष्यति | ततश्च क्ष्मादयो गुणैर्वृत्तिभिरक्षाधारतया चात्मनां भोगसाधनतां भजन्तीत्यर्थः | कीदृशां क्ष्मादीनामित्यत आह- स्वमात्रापूरपुष्टानामिति | स्वैः स्वैः कारणभूतैस्तन्मात्रैर्य आपूरः पूरणम्, तेन पुष्टानाम् | अकृतस्य करणं कृतस्य परिवर्धनं च प्रकृतिकर्म यतः || ५ || एतानि च भूतानि स्वकारणैस्तन्मात्रैः सह स्थूलसूक्ष्मत्वेनेन्द्रियाधाराणि स्थितानीत्युक्तं श्रीमन्मतङ्गे- तन्मात्राणीह घटवन्महाभूतानि लेपवत् || (वि० १९|२१) इति | तत्त्वसंग्रहेऽपि- एतत्कार्यं दशधा करणैराविश्य कार्यते चेष्टाम् | अविभुत्वात् करणानि तु कार्यमधिष्ठाय चेष्टन्ते || (श्लो० ५) इति | अतश्चैषां सूक्ष्मदेहस्थानां भूतानामिन्द्रियाधारत्वे बाह्यशरीरस्थानां च दिह उपचये (१०१५ अ०) इति धात्वर्थगत्या देहत्वेन चोपचयधर्मित्वे साधारणे सति धृत्यादयोऽसाधारणवृत्तय इत्याह- करणाधारदेहत्वे धृतिसंग्रहपक्तयः | व्यूहोऽवकाशदानं च वृत्तयो वसुधादिषु || ६ || तत्र धृतिर्धारणं भूमेर्वृत्तिः | संग्रहोऽवष्टम्भोऽम्भसः | पक्तिः पाकोऽग्नेः | व्यूहोऽवयवघटनं वायोः | अवकाशस्यास्पदस्य दानमाकाशस्य || ६ || अथ तदेवैषां साधारणमिन्द्रियाधारत्वं सूक्ष्मदेहस्थत्वेनाह- आतिवाहिकदेहस्थं करणं प्रविजृम्भितैः | योनेर्योन्यन्तरं चापि याति पुंभोगसिद्धये || ७ || पुमर्थदादृष्टवशात् अतिवाहयत्यात्मनां कर्म भोगेन नाशयतीत्यातिवाहिकः सूक्ष्मदेहः, तत्स्थमेव करणमिन्द्रियवर्गश्चेष्टते, अविभुत्वेन निराश्रये चेष्टानुपपत्तेः | सूक्ष्मदेहस्थभूततन्मात्राधार एव करणवर्गश्चेष्टत इत्युक्तम् | किञ्च, तत्सूक्ष्मदेहस्थं करणं पुरुषार्थप्रदकर्मवशात् तस्यैव पुंसो भोगसिद्धये योनेर्योन्यन्तरं प्रयाति | यदुक्तं तत्त्वसंग्रहे- वसुधाद्यस्तत्त्वगणः प्रतिपुंनियतः कालान्तोऽयम् | कर्मवशतो भुवनजदेहेष्वयं च सर्वेषु || (श्लो० २४-२५) इति || ७ || स च सूक्ष्मदेहः सूक्ष्मत्वात् पिशाचादिवन्नास्मदादिप्रत्यक्षः, अपि तु योगिप्रत्यक्षगम्य इत्याह- देहो नैवातिवाहिकः | अक्षाधारोऽक्षगम्योऽयमनीशानां पिशाचवत् || ८ || अथ भूतानां गुणानाह- गन्धः क्षितौ रसः षोढा मधुरः क्ष्माकबन्धकः | शुक्लादि शुक्लं भास्वच्च रूपं क्षित्यादिषु त्रिषु || ९ || अशीतोष्णौ महीवायवोः पाकजापाकजौ पृथक् | जले शीतः शिखिन्युष्णस्पर्शोऽयं संव्यवस्थितः || १० || शब्दस्तद्द्रव्यजनितः पृथग्भूतचतुष्टये | प्रतिशब्दकसंघातो नभस्येवोदितो बुधैः || ११ || तत्र गन्धः सुरभ्यसुरभिरूपः क्षितावेव | रसः क्ष्माजलयोः | तत्र क्षितौ कट्वम्ललवणमधुरकषायतिक्तरूपः | जले तु मधुर एव | रूपं च क्ष्माजलाग्निषु | तत्र क्षितौ शुक्लरक्तपीतकृष्णाद्यनेकविधम् | जले तु शुक्लमेव | अग्नौ भास्वद्रूपम् | तेषु सवायुषु स्पर्शः स्थितः | स च मह्यां वायौ च प्रत्येकमशीतोऽनुष्णः | कः पुनर्महीवायुस्पर्शयोः परस्परं भेदोऽत आह- पाकजापाकजौ पृथगिति | मह्यां स्पर्शः पाकजः, वायौ त्वपाकज इत्ययमेवानयोर्भेदः | अस्य चोपलक्षणत्वाद् रूपादयोऽपि महीगुणाः पाकजा एव | जले पुनः स्वाभाविकः स्पर्शः शीत एव | अग्नावुष्ण एव | शब्दश्च भूम्यादिषु चतुर्षु तैस्तैः पार्थिवादिभिर्द्रव्यैः परस्परमाहत्य जातः | नभसि तु प्रतिश्रुक्शब्दात्मकः | ननु वैशेषिकादिभिराश्रयादन्यत्रो(त्रानु)पलब्धेराकाशैकगुणः शब्द इष्यते, तदयुक्तम्, प्रत्यक्षागमबाधितत्वेन हेतोः कालात्ययापदिष्टत्वात् | यतः शब्दाश्रय एव भेर्यादौ शब्दः श्रूयते | किञ्च, पृथिव्यां तावत् कटकटादिकः शब्दो दृश्यते, जले छलच्छलादिः, अग्नौ धमधमादिः, शकशकादिर्वायौ, नभसि च प्रतिशब्दात्मक इति | एतच्चाकाशैकगुणत्वं शब्दस्य विस्तरेणास्माभिर्मृगेन्द्रवृत्तिदीपिकायां प्रतिक्षिप्तम् | उक्तं च श्रीमन्मृगेन्द्रे- इति पञ्चसु शब्दोऽयं स्पर्शो भूतचतुष्टये | अशीतोष्णो महीवायवोः शीतोष्णौ वारितेजसओः || भस्वदग्नौ जले शुक्लं क्षितौ शुक्लाद्यनेकधा | रूपं त्रिषु रसोऽम्भस्सु मधुरः षड्विधः क्षितौ || गन्धः क्षितावसुरभिः सुरभिश्च मतो बुधैः | (वि० १२|२७-२९) इति || ९-११ || अथ उक्तार्थोपसंहारः- इत्थं यथोक्तगन्धादिव्रातोपेता धरादयः | अभिप्रसिद्धा लोकस्य गन्धाद्याश्रयतया पृथिव्यादयोऽर्था लोकसिद्धा इत्यर्थः || एषां च भूतानामस्मदादिबाह्येन्द्रियपरिच्छेद्यगुणत्वाद् घटादिवत् कार्यत्वसिद्धेस्तत्कारणतया पञ्च तन्मात्राः सिद्धा इत्याह- मात्रास्तैरनुमानतः || १२ || अथ गुणग्रहणादेव तदव्यतिरेकित्वाद् गुणिनोऽपि ग्रहणं सिद्ध्यतीति दर्शयितुं प्रोक्तानां तावद् भूतानां गुणेभ्योऽपृथग्भावं साधयितुमाह- चित्रस्वभावकाः प्रोक्ता गुणभिन्ना धरादयः | क्रमव्यङ्ग्या यथा चित्रं पटे रूपं तु वेष्टिते || १३ || उक्ताः पृथिव्यादयः | अर्थाद् गन्धादिगुणैः परस्परं भिन्नाः स्थलोपलपर्वतसरित्समुद्राद्याकारभेदेन विचित्रस्वभावाश्च दृश्यन्ते | ततोऽमी वेष्टितपटगतचित्ररूपवत् क्रमव्यङ्ग्या एव | नहि पृथिव्यादीनां परिदृश्यमानावान्तराकारभेदभिन्नं सन्निकृष्टं स्वरूपं तदनुगुणं च विप्रकृष्टं स्वरूपं सर्वं युगपद् ग्रहीतुं शक्यम्, अपि त्विन्द्रियैरनुमानेन च क्रमेण व्यज्यते || १३ || किमतः ? इत्यत आह- विशेषणविशेष्यत्वव्यपदेशस्य धीभिदाम् | क्रमव्यङ्ग्यत्वतो हेतोर्गोचरत्वं व्रजन्त्यमी || १४ || अमी धरादयोऽर्थाः क्रमव्यङ्ग्यत्वाद्धेतोः सुरभिरियं पृथिवीत्यादीनां विशेषणविशेष्यरूपाणां धीभिदां ज्ञानभेदानां तद्भावव्यपदेशस्य च विषयतां प्राप्नुवन्ति || १४ || अत्र च- नागृहीतैस्तु गन्धाद्यैर्जातुचिज्जायते मतिः | धरित्र्यां हि जलादीनामग्रहेऽपि प्रजायते || १५ || गन्धादिभ्यस्ततोऽनन्या जलादिभ्यः पृथक् च भूः | हि यस्मात् कारणात्, विशेषरूपैर्गन्धादिभिर्गुणैरगृहीतैर्विशेष्यायां धर्मिरूपायां धरित्र्यां कदाचिद् बुद्धिर्नोत्पद्यते, द्रव्यान्तरेषु तु जलादिष्वगृहीतेष्वप्युत्पद्यत एव | तस्माद् गन्धादिभ्यो भूमिरनन्या, जलादिभ्योऽन्यैवेति || १५ || एवं भूतान्तरेष्वपि ज्ञेयमित्याह- जलादिष्वेवमेवायं योज्यो हेतुर्मनीषिभिः || १६ || ननु जपाकुसुमसन्निधाने रक्तभावं भजन् स्फटिकमणिः शौक्ल्यगुणग्रहणादृतेऽपि गृह्यते, तस्माद् गुणिग्रहणस्य गुणग्रहणपूर्वकत्वमसिद्धमत आह- संस्थानं चापि वर्णं च रूपं द्विविधमिष्यते | तस्मादसिद्धता नास्ति हेतोरुपहिते मणौ || १७ || इह हि द्रव्याणां वर्णवत् संस्थानात्मकमपि रूपं गुण एवेष्यते | तस्माज्जपाकुसुमोपहितस्यापि स्फटिकस्य ग्रहणं शौक्ल्यगुणग्रहणाभावेऽपि वृत्तचतुरश्रादिसंस्थानग्रहणपुरस्सरमेव भवतीति द्रव्यग्रहणस्य गुणग्रहणपूर्वकत्वं सिद्धमेव | अतोऽस्य हेतोर्नासिद्धतेति || १७ || इत्थं भूतानां भोगाङ्गत्वं प्रसाध्याधुना मात्रास्तैरनुमानतः (श्लो० १२) इति प्रागुक्तां तन्मात्रासिद्धिं विशेषयितुं भूतानां तावत् कार्यत्वमनिर्देशेन दर्शयति- गुणानां कार्यतासिद्धौ यो हेतुरभिधीयते | क्षित्यादिककलान्तानां योज्यः कारणसिद्धये || १८ || गुणानामचैतन्ये सत्यनेकत्वाद् घटादिवत् कारणपूर्वकत्वमिति वक्ष्यति | ततस्तेनैव हेतुना पृथिव्यादीनामपि कार्यत्वसिद्धिः | तथाहि- परिदृश्यमानभोगवैचित्र्यान्यथानुपपत्त्या पृथिव्यादिककलान्तत्रिंशत्तत्त्वात्मकः प्रत्यात्मनियतः सूक्ष्मदेहोऽस्तीत्युक्तम्, आगमेषु च श्रूयते | ततस्तेषां पृथिव्यादीनां प्रतिपुरुषनियतत्वेनाचैतन्ये सत्यनेकत्वात् कारणपूर्वकत्वं सिद्ध्यतीति || १८ || तत्र तावद् भूतकारणत्वेन तन्मात्रासिद्धेस्तत्तद्गुणभेदादेव पृथिव्यादीनां क्रमसिद्धिरित्याह- शब्दाद्येकोत्तराधिक्या मात्रास्तदविशेषतः | योनयो गगनादीनां क्रममिच्छन्ति धर्मिणाम् || १९ || अयमत्र तात्पर्यार्थः- अनभिव्यक्तविशेषशब्दमात्रस्वरूपं शब्दतन्मात्रमाकाशस्योपादानम्, एवं तदधोवर्ति शब्दस्पर्शमात्रस्वरूपं स्पर्शतन्मात्रं वायोः, शब्दस्पर्शरूपात्मकं रूपतन्मात्रं तेजसः, शब्दस्पर्शरूपरसात्मकं रसतन्मात्रं जलस्य, शब्दादिगन्धान्तपञ्चगुणरूपं गन्धतन्मात्रं भूमेरिति | अक्षरार्थस्तु- गगनादिवच्छब्दाद्येकोत्तरं गुणाधिक्यं यासां ताः शब्दाद्येकोत्तराधिक्याः | तदविशेषतो गुणाविशेषादनभिव्यक्तविशेषशब्दादिमात्रस्वरूपात् तेषां गगनादीनां क्रमाद् योनय उपादानभूताः शब्दादितन्मात्राः, तेषामेव विशिष्टगुणयोगिनां धर्मिणामाकाशादीनां भूतानां सृष्टिक्रममिच्छन्ति, गुणाधिक्यक्रमेणाधोऽधोभावं भजन्त्यः कार्याणामप्यधोऽधोभावं कुर्वन्तीत्यर्थः || १९ || कथं पुनरासां भोगाङ्गत्वमत आह- स्वकार्योत्पत्तितत्पुष्टिकर्तृता सर्वयोनिषु | मात्राद्यासु पुमर्थस्य साधनत्वं विनिश्चितम् || २० || अकृतस्य करणं कृतस्य परिवर्धनं च यतः सर्वोपादानानाम्, ततस्तन्मात्राणां मायादीनां च कार्ययोनीनां भोगसाधनतत्त्वोत्पादकत्वात् तदापूरकतया च भोगत्वं सिद्धम् || २० || अथेन्द्रियाणामपि भोगाङ्गत्वं दर्शयितुं प्रथमं कर्मेन्द्रियसिद्धिमाह- आनन्दगमनोत्सर्गवचनादानकर्मणाम् | उपस्थपादपायवास्यपाणिनामानि वै पृथक् || २१ || उत्सर्गो मलविरेकः | आनन्दादिक्रियाहेतुत्वेनोपस्थादीनि कर्मेन्द्रियाणि सिद्धानीत्यर्थः || २१ || किमेतान्युपस्थादीनि स्थानान्येवेन्द्रियाणि नेत्याह- भावाभावौ तु यत्तन्त्रौ प्रत्येकं कर्मणां स्मृतौ | स्थानेषु सत्सु तानीह पञ्च कर्मेन्द्रियाणि तु || २२ || इह हि केषाञ्चित् पादादिस्थानयोगिनामपि तत्तदिन्द्रियशक्तिहीनानां गमनादिक्रिया न दृश्यते | तस्मात् तेषु स्थानेषु सत्स्वपि तासां क्रियाणां यदधीनौ भावाभावौ तास्तत्रस्थाः शक्तय एव पृथक् पञ्चेन्द्रियाणि ज्ञेयानि | अत एव कर्मेन्द्रियाणि ये नेच्छन्ति नैयायिकादयस्ते प्रतिक्षिप्ताः || २२ || नन्वेवं चेद् भ्रूलतोत्क्षेपादीनामपि क्रियात्वादनन्तता कर्मेन्द्रियाणां प्रसज्यते, अत आह- आनन्दादिभिरेतैस्तु कर्मभिः परिभाषितैः | कर्मेन्द्रियाण्यतो नैषामानन्त्यं कर्मणां वशात् || २३ || भवेदयं दोषो यद्यस्माभिः शरीरैकदेशवृत्तीनि तानीष्यन्ते | त्वगिन्द्रियवत् तेषां सर्वशरीरव्यापकत्वेनेष्टत्वाद्धस्तस्यैवायं भ्रूक्षेपणादिव्यापारः पायवादेरिव जीर्णविरेचनाद्यात्मक इति भ्रूपेक्षादीनामप्यानन्दादिष्वेवान्तर्भावान्न तद्भेदादत्रेन्द्रियानन्त्यसिद्धिः | किञ्च, एतैरेव आनन्दादिभिः प्रागुक्तैः प्रधानभूतैः कर्मभिः पञ्चैव कर्मेन्द्रियाणि सिद्ध्यन्तीति नानन्तता कर्मेन्द्रियाणाम्, तत्तत्संज्ञास्तु तेषां तत्र तत्र विशेषाधिष्ठानादित्यविरोधः || २३ || इदानीं बुद्धीन्द्रियसिद्धिमाह- शब्दादिग्रहणे पुंसः कर्तुर्नाकरणा कृतिः | न चैककरणा यस्मादपेक्षा न निवर्तते || २४ || शब्दादिग्रहणस्यापि क्रियात्वाच्छिदिक्रियावत् करणं विना नोत्पत्तिर्युक्ता | न च ताः पञ्चापि क्रियाः श्रोत्रादेरेकस्मादेव करणादुत्पद्यन्ते | यस्मात् करणान्तरापेक्षा न निवर्तते, शब्दग्रहणकरणभूते श्रोत्रे सत्यपि स्पर्शादिग्रहणे त्वगादिकरणान्तरापेक्षिता दृश्यत इति भावः || २४ || कानि तानि करणानीत्यत आह- करणानि श्रुतिस्त्वक् च चक्षुर्जिह्वा च नासिका | ततश्च शब्दादिग्रहणान्यथानुपपत्त्या तान्यनुमीयन्त इत्यभिप्रायेणाह- शब्दाद्यालोचनं तेषां वृत्तिः शब्दादिसन्निधौ || २५ || सन्निभेति पाठे शब्दादिबाह्याकारसदृशमान्तरमाकारमध्यवसायिन्या बुद्ध्या सह मनोऽधिष्ठितानीन्द्रियाणि विद्याया विषयत्वेनोपस्थापयन्तीत्यर्थः | तं चेन्द्रियोपस्थापितं बुद्ध्याऽध्यवसितमाकारमन्तरङ्गेण विद्याख्येन करणेन पुरुषो गृह्णातीति वक्ष्यामः | उक्तं चान्यत्र- (पूर्वतनी ७८ पृष्ठस्था द्वितीया टिप्पणी द्रष्टव्या |) बुद्ध्याऽध्ववसितमर्थं पुरुषश्चेतयते इति || २५ || न चैतानि कर्णशष्कुल्यादिस्थानान्येवेन्द्रियाणि, अपि तु तत्स्थाः शक्तय एव, यतः स्थानवतामपि कर्मवशात् तच्छक्तिवैकल्यान्न शब्दादिज्ञानमुत्पद्यत इत्याह- एतानि स्थानमात्राणि बुद्ध्यक्षाणीति मा कृथाः | स्थानेषु सत्सु वैकल्यान्न संविज्ज्ञायते यतः || २६ || अथान्तःकरणसिद्धिरुच्यते- इच्छासंरम्भबोधाख्या नोक्तैः सिद्ध्यन्ति साधनैः | तत्सिद्धौ करणान्यन्तर्मनोऽहङ्कारबुद्धयः || २७ || इह हि पृथिव्यादीनां तत्त्वानां स्वकार्यैरेव सिद्धेः कार्यान्तरहेतुत्वे प्रमाणाभावाद् अनेकतत्त्वपरिकल्पनाभावप्रसङ्गाच्च यानीच्छादिसिद्धौ साधनानि, तानि मनोऽहङ्कारबुद्ध्याख्यान्यान्तराणि करणानीत्यन्तःकरणसिद्धिः | तत्रेच्छाशब्देनैकाग्रतापरपर्यायोऽवधानात्मकः सङ्कल्पो विवक्षितः | स मनसो वृत्तिः | संरम्भश्च प्रयत्नोऽहङ्कारस्य | बोधश्चाध्यवसायो बुद्धेरिति | एतच्च प्रपञ्चयिष्यते || २७ || एषां चान्तःकरणबहिष्करणानां परस्परोपकारेण पुरुषार्थसाधनत्वमाह- अन्तर्मुखानि बाह्यानि संभूयेच्छादिसाधनम् | शिबिकोद्वाहिनरवदेकापायेन तास्ततः || २८ || अन्तर्मुखागतानां च चितेरर्थं प्रकुर्वताम् | बाह्यार्थं बुद्धिभिः सार्धं न स्युरिच्छादिकाः क्रियाः || २९ || यतोऽन्तर्मुखानि बाह्यानि च करणानि शिबिकोद्वाहिनरवत् संभूयेच्छादीनां क्रियाणां साधनं भवन्ति, बाह्यार्थालोचनपूर्वाणामेवाऽध्यवसायादीनां दर्शनात्, अवधानादिना बिना बाह्यार्थग्रहणासंभवाच्च | ततश्चितेरात्मनोऽर्थं भोगाख्यं प्रयोजनं साधयतामन्तर्मुखागतानामन्तःकरणानां चशब्दाद् बहिष्करणानां वाऽन्यतरस्यापि वर्गस्यापायेन तिष्ठतां सतां ता इच्छादिकाः क्रियाः शब्दादिबाह्यार्थबुद्धयो वा पुरुषार्थसाधनतया नोत्पद्यन्ते, यथा शिबिकोद्वाहिनोर्मध्यादेकस्यापाये तदुद्वहनक्रिया न दृश्यते || २८-२९ || अत्र पराभिप्रायमाह- अन्येऽन्तःकरणं प्राणमिच्छन्ति व्यक्तचेतनम् | अन्ये लोकायतैकदेशाः प्रणयनादिवृत्तिभिर्जीवनादिहेतुभूतं भूतपरिणामविशेषादभिव्यक्तचेतनं प्राणाख्यमान्तरं वायुमेवान्तःकरणमाहुः | अस्य दूषणमाह- प्रयत्नैर्न विना सोऽस्ति तत्सिद्धौ करणं तु किम् || ३० || प्राणात्मनस्तावद् वायोः कदाचित्कत्वेन प्रयत्नपूर्विका प्रवृत्तिर्दृश्यते | यदाहुः- प्रेरणाकर्षणे वायोः प्रयत्नेन विना कुतः (प्र० वा० १|५४) इति | ततः संरम्भात्मकप्रयत्नसिद्धौ केनापि करणेन भाव्यमित्यन्तःकरणसिद्धिः | वक्ष्यति च- संरम्भोऽहङ्कृतेर्वृत्तिः (श्लो० ३३) इति || ३० || किञ्च, चैतन्योत्पत्तिरप्यस्य वायोर्भवताऽभ्युपगतेति तस्याः करणान्तरं वाच्यमित्याह- चैतन्योद्गारभारोऽयमस्यान्तःकरणं वद | व्यक्तं न चास्य चैतन्यं वायुत्वाद् बाह्यवायुवत् || ३१ || न जडस्य चैतन्याभिव्यक्तिर्युक्ता, सर्वस्य चैतन्याभिव्यक्तिप्रसङ्गादित्यस्य न चैतन्यं वायुत्वाद् बाह्यवायुवदिति || ३१ || इत्थं प्रणान्तःकरणपक्षं निरस्य प्रागुक्तादन्तःकरणत्रयान्मनः साधनायाह- इच्छाहेत्वाशु सञ्चारी बहिर्देवप्रवर्तकम् | मनो यस्याशुभावाच्च कर्तुर्न युगपन्मतिः || ३२ || देवनाद् द्योतनाद् देवशब्देनेन्द्रियाण्युच्यन्ते | मतिशब्देन च तत्तदर्थविषयं ज्ञानम् | ततश्चायमर्थः- इह ह्यात्मन इन्द्रियार्थसन्निकर्षे सत्यपि सर्वाणीन्द्रियाणि युगपन्न प्रवर्तन्ते | किञ्चिदेव, न च तत्सर्वदा प्रवर्तते | ततस्तत्प्रवृत्तौ यत्करणं तदिच्छायाः सङ्कल्पात्मनोऽवधानस्य हेतुभूतं बाह्येन्द्रियप्रवर्तकं च मनो बोद्धव्यम् | अत एव च तदान्तरेण अन्तःकरणाधिष्ठानेन सुखादिसङ्कल्पेन च बाह्येन्द्रियाधिष्ठानेन च द्विधाऽधिकारीत्युक्तं श्रीमन्मतङ्गे- द्विधाऽधिकारि तच्चित्तं भोक्तुर्भोगोपपादकम् | बहिष्करणभावेन स्वोचितेन यतः सदा || इन्द्रियाणां तु सामर्थ्यं सङ्कल्पेनात्मवर्तिना | करोत्यन्तःस्थितं भूयस्ततोऽन्तःकरणं मनः || (वि० १८|८१-८२) इति | श्रीमन्मृगेन्द्रेऽपि- देवप्रवर्तकं शीघ्रचारि सङ्कल्पधर्मि च | मनः (वि० १२|७) इति | ननु स्वादुसुरभ्यभिजातमर्मरशब्दवदभिरूपदीर्घतरशष्कुल्या-स्वादने युगपत् पञ्चज्ञानोत्पत्तिर्दृश्यते, तन्न, यतस्तत्राप्युत्पलपत्रशतव्यक्तिभेदवद्लक्ष्यसूक्ष्मक्रमाण्येव पञ्चज्ञानान्युत्पद्यन्ते | अत एव एतदाशु संचारीत्युक्तम् || ३२ || पञ्चकर्मकृतो वायोर्जीवनाय प्रवर्तकः | संरम्भोऽहङ्कृतेर्वृत्तिः जीवनाय शरीरधारणार्थं प्रणयनापनयनादिपञ्चकर्मकृतस्तत्तद्वृत्तिभेदेन प्राणापानादिसंज्ञाभाजो वायोः प्रवर्तकः संरम्भात्मको यः प्रयत्नः, सोऽहङ्कारवृत्तिरित्यहङ्कारसिद्धिः | यदुक्तं श्रीमन्मृगेन्द्रे- अथ व्यक्तान्तराद् बुद्धेर्गर्वोऽभूत् करणं चितः | संरम्भाद् यस्य चेष्टन्ते शारीराः पञ्च वायवः || (वि० ११|२०) इति | तत्र प्रणयनं सूक्ष्मदेहस्योर्ध्वाधोनयनं प्राणस्य व्यापारः | अपनयनमधःप्रापणं मलादेरपानस्य | अन्नादेः रसरूपस्य सर्वगात्रेषु साम्येन नयनं समानस्य | विनमनमङ्गानां व्यानस्य | उन्नयनमान्तरस्य ध्वनेर्वर्णताप्रापणमुदानस्य | पञ्चकर्मकृत इति च प्राधान्यादुक्तम् | उद्गारादिकर्तृत्वेन चास्य वायोः श्रवणात् | यदुक्तं श्रीमत्कालोत्तरे- उद्गारे नाग इत्युक्तः कूर्म उन्मीलने स्थितः | कृकरस्तु क्षुते चैव देवदत्तो विजृम्भणे || धनञ्जयः स्थितो घोषे मृतस्यापि न मुञ्चति || (१०|१२-१३) इति || किञ्च, बुद्धिकार्यादयं घट इत्यादिग्राह्याध्यवसायरूपात् प्रत्यर्थं भिन्नरूपात् प्रत्ययादत्यन्तभेदेन भासमानः सर्वार्थग्रहणेऽप्येकरूपोऽहमिति ग्राहकाध्यवसायरूपः प्रत्ययोऽहङ्कारस्यैव वृत्तिरित्याह- अन्योऽर्थप्रत्ययोऽपरः || ३३ || अहङ्कारवृत्त्यात्मकप्रत्ययोऽर्थप्रत्ययादन्य इत्यर्थः || ३३ || ननु शब्दग्रहणादयः श्रोत्रादीनामसाधारणवृत्तयः, संरम्भस्तु तेषामेवेन्द्रियाणां साधारणवृत्तिरिति किमन्येनाहङ्कारेण कल्पितेन ? अत आह- न देवग्रामसामान्यवृत्तिः संरम्भ इष्यते | यतोऽन्यतमवैकल्ये जायते सत्यहङ्कृतिः || ३४ || साधारणकार्यकर्तृणामेकापाये तत्क्रियानुत्पत्तेरुक्तत्वात् तद्वैकल्येऽपि जायमानोऽयं संरम्भोऽहंप्रत्ययो वाहङ्कारस्यैव कार्य इत्यर्थः || ३४ || अत्रैव प्रसङ्गाद् बुद्धीन्द्रियकर्मेन्द्रियतन्मात्रवर्गाणां मनःसहितानामहङ्कारादेवोत्पत्तिरिति दर्शयितुमाह- अन्ये चाहङ्कृतिस्कन्धास्त्रिवर्गजनकास्त्रयः | तैजसादिकनामानः क्रमशः सात्त्विकादयः || ३५ || सत्त्वरजस्तमोबहुलाः सात्त्विकराजसतामसास्त्रयोऽहङ्कारस्कन्धाः क्रमात् तैजसवैकारिकभूतादिकसंज्ञाभाजो भवन्ति | सात्त्विकादित्वं चैषां सत्त्वादिगुणबाहुल्यात् || ३५ || नामिश्रं परिणमत इति न्यायेन गुणान्तरसंसर्गोऽप्येषां विद्यते यतः, तत्र कुतः केषामुत्पत्तिरित्यत आह- समनो बुद्धिदेवानां गणो यस्मात् प्रकाशकः | तस्मात् स सात्त्विकाज्जातः स्वानुरूपादहङ्कृतः || ३६ || अत्र नैयायिकमतमनूद्य दूषयति- अन्ये तु बुद्धिदेवानां भौतिकत्वं प्रपेदिरे | विषयाणां तु नियमादसिद्धादेव हेतुतः || ३७ || एवं हि ते मन्यन्ते- शब्दैकग्राहकं श्रोत्रम्, स्पर्शैकग्राहिका त्वगित्यादिनियतविषयत्वादिन्द्रियाणां तानि शब्दाद्याधाराकाशादिभूतजन्यानि | आहङ्कारिकत्वे तु तेषामेककारणत्वादेकरूपता स्यान्न तु प्रत्येकं विषयनियमसिद्धिरिति | तदिदं तैरसिद्धादेव हेतोः कल्प्यते, तेषां विषयनियमस्य प्रकृतिनियमसाधकस्याऽसिद्धेः | नियतविषयत्वे हीन्द्रियाणां तानि स्वस्वकारणान्येव भूतानि गुणसहितानि गृह्णीरन् | यावता द्रव्यान्तराणि तु तद्गुणाश्च चक्षुरादिना गृह्यन्ते || ३७ || तथाहि- चतुर्द्रव्यगतान् स्पर्शांश्चतुरो मारुता त्वचा | द्रव्याण्यनियतं चैव गृह्णाति मरुता समम् || ३८ || त्वगिन्द्रियं तावद् वायव्यत्वेनाऽभ्युपगतं वायुसहितानि पृथिव्यप्तेजांसि तद्गतांश्च स्पर्शान् गृह्णाति || ३८ || किञ्च- त्रीणि द्रव्याणि चक्षुश्च तेषु रूपाणि चैव हि | अतो न नियमोऽक्षाणां विषयाणां च कल्प्यते || ३९ || दूषणान्तरमाह- भौतिकत्वाच्च नियमे कर्मसामान्ययोः स्फुटम् | देवेभ्यो बुद्धयो न स्युः समवाये च देहिनाम् || ४० || भौतिकत्वसाधनायाऽक्षाणां विषयनियमेऽभ्युपगम्यमाने भूतेभ्यो गुणेभ्यश्च व्यतिरेकेण भवद्भिरभ्युपगतानां कर्मसामान्यसमवायानां पदार्थानां बुद्धयस्तेभ्यो जायमाना न भवेयुः || ४० || यदप्युक्तमाहङ्कारिकत्वे तुल्ये कथमक्षाणां कार्यभेद इति, तदप्युत्पत्तिभेदादिक्षुविकाराणां गुडखण्डशर्करादीनामिव भविष्यतीति मत्वा श्रोत्रादीनां शब्दादिग्रहणनियामका-पेक्षायामप्यस्माभिः पुरुषार्थदायकं कर्मैव नियामकमिष्यत इत्याह- न चाप्यहङ्कृतो जन्म नियमे कारणं मम | पुमर्थदातृ यत्कर्म कारणं तद् भवेरितम् || ४१ || नास्माभिरहङ्कारजत्वमेव विषयनियमे कारणमिष्यते, किन्तु शिवाधिष्ठितं कर्म चेत्यर्थः || ४१ || कायरन्ध्रविशिष्टे नभोभागे शब्दावद्योतकेऽभ्युपगम्य-माने नासारन्ध्रादीनामपि श्रवणेन्द्रियत्वप्रसङ्गतया श्रवणाकाशस्यैव शब्दग्राहकत्वनियमे कर्मैवाऽदृष्टाख्यं नियामकं भौतिकेन्द्रियवादिनाऽपीष्यत इत्याह- नानाश्रुतिभयात् कॢप्ते खे परेणापि कारणम् | शब्दभोगस्य नियमे तत्प्रदं कर्म भाषितम् || ४२ || खे कायाकाशे शब्दग्राहके कल्प्यमाने नानाश्रुतित्वप्रसङ्गभयाच्छ्रवणाकाशस्यैव शब्दग्रहणनियमे पुरुषार्थपदं कर्मैव कारणं भवताऽपीष्यत इत्यन्वयः || ४२ || इत्थं कर्मेन्द्रियाणामाहङ्कारिकत्वमाह- राजसाद् वैकृताद् वर्गः कर्माक्षाणां तु कर्मकृत् | जातः कार्यस्य येनेह कारणानुविधायिता || ४३ || रजसः प्रवृत्तिहेतुत्वाद् राजसाद् वैकारिकाख्यादहङ्कारस्कन्धात् क्रियाहेतुः कर्मेन्द्रियवर्गो जातः | यस्मात् कारणानुविधायित्वं कार्ये दृश्यते || ४३ || अत एव सत्त्वस्य प्रकाशत्वात् प्रकाशस्य बुद्धीन्द्रियवर्गस्य सात्त्विकादुत्पत्तिरुक्ता | अन्यथा भिन्नस्वभावयोरनयोर्वर्गयोरेक-स्मादेवोत्पत्त्यभ्युपगमे कारणानियमलक्षणोऽनवस्थादोषः प्रसज्यत इत्याह- विनिवारयितुं शक्या नाव्यवस्था विकारजा | सात्त्विकात् संभवे कॢप्ते सात्त्वराजसवर्गयोः || ४४ || अत एव- मात्रासङ्घोऽप्यहङ्काराद् वर्गद्वयविलक्षणः | प्रकाश्यस्तामसस्तस्माज्जातो भूतादिसंज्ञकात् || ४५ || इदानीं बुद्धेरध्यवसायादिहेतुत्वमाह- प्रकाशो विषयाकारो देवद्वारो न वा क्वचित् | पुंबोधव्यक्तिभूमित्वाद् बोधो वृत्तिर्मतेर्मता || ४६ || इन्द्रियद्वारोऽयं घट इत्यादिबाह्यविषयाध्यवसायरूप- प्रकाशस्तदनपेक्षश्चान्तरस्मृतिप्रतिभादिप्रकाशो वाशब्दाद् वक्ष्यमाणो भावप्रत्ययलक्षणश्च प्रकाशः पुरुषबोधस्य व्यक्तिस्थानत्वाद् बोधाख्यो मतेर्बुद्धेर्वृत्तिर्ज्ञेया | ततोऽध्यवसायस्मृत्यादिलिङ्गा बुद्धिः सिद्ध्यतीति | तदुक्तं श्रीमन्मृगेन्द्रे- इति बुद्धिप्रकाशोऽयं भावप्रत्ययलक्षणः | बोध इत्युच्यते बोधव्यक्तिभूमितया पशोः || (वि० ११|८) इति || ४६ || एष च बुद्धिबोधस्त्रिविध इत्याह- कॢप्तिर्मतिः स्मृतिश्चेति तत्र कॢप्तिः कल्पनं प्रतिभेत्यर्थः | मतिश्च मननं ज्ञानमध्यवसाय इति यावत् || इत्थमिच्छादिकार्यभेदादन्तःकरणभेदः सिद्ध इत्युपसंहरति- जाता भिन्नार्थवाचकाः | इच्छासंरम्भबोधाख्यास्तेनान्तःकरण त्रिधा || ४७ || स्मृत्यादीनामवान्तरभेदेऽपि बोधकत्वेनैकार्थत्वाद् बुद्धिवृत्तित्वम्, इच्छादयस्तु वृत्तयो भिन्नार्थत्वाद् भिन्नकारणा इति भावः || ४७ || ननु पृथिव्यादीनां विषयत्वेन भोग्यत्वादिन्द्रियाणां च तद्ग्रहणहेतुत्वादस्तु भोगसाधनता, बुद्धेस्तु इन्द्रियार्थसन्नि-कर्षादात्मन्युत्पद्यमानायाः संवेदनरूपत्वान्न भोगसाधनता, अपि त्वात्मगुणतैवेति नैयायिकादयः, अत आह- तुल्ये गुणान्वितत्वे तु संवेद्यं किञ्चिदिष्यते | बुद्धिश्चापि ह्यसंवेद्या धन्या तार्किकता तव || ४८ || अयमभिप्रायः- द्विविधोऽत्र बोधोऽध्यवसायात्मकोऽनध्यवसायात्मकश्च | तत्र योऽध्यवसायात्मकः, स सर्वदा ग्राहकरूपेणैव भासमानत्वादात्मनः स्वभाव एव | यस्त्वनध्यवसायरूपः, स उत्पत्त्यपवर्गयोगित्वेन भासमानत्वान्न पुंसः स्वभावः, नित्यस्यानित्यस्वभावत्वायोगात्, तत्स्वभावत्वे चानित्यत्वप्रसङ्गात् | न च नित्योऽनुभूयते, ततो न पुंसः स्वभाव इति | यस्य सः स्वभावः सा बुद्धिर्भावानामध्यवसेयतोत्पादिका धर्मज्ञानाद्यष्टगुणा बुद्धिरिति | ततश्च विषयाध्यवसायरूपत्वाद् भावप्रत्ययात्मना सत्त्वादिगुणत्रयान्वितेन स्वरूपेण भोग्यत्वाच्च बुद्धेरपि संवेद्यतैव, न त्वात्मगुणत्वम् | तदुक्तं तत्त्वसंग्रहे- बुद्धिर्विषयाकारा सुखादिरूपा समासतो भोग्यम् (श्लो० १३) इति | प्रयोगश्चात्र भवति- बुद्धिरपि संवेद्यैव, सत्त्वादिगुणान्वयात्, पृथिव्यादिवदिति | करणत्वं चेन्द्रियवदस्या विषयाध्यवसायहेतुत्वात् सिद्धमित्युक्तम् || ४८ || ननु धर्मादीनां भावानामप्यस्माभिरात्मगुणत्व-मिष्यते, तदयुक्तम्, तेषामात्मसंस्कारकत्वायोगात् | तथाहि- ज्योतिष्टोमादिकर्मसंस्कारस्तावन्नात्मनि संभवति, अविकारित्वात्, कर्मणां च कृष्यादीनामात्मसंस्कारत्वादृष्टेः, अपि तु जड एव | यत्र तानि संस्कारं कुर्वन्ति सा बुद्धिः | एवं ज्ञानादिसंस्कारेऽपि वाच्यम्, तद्बलादेव स्वप्नस्मृतिप्रतिभादावसत्यप्यर्थे उल्लेखो दृश्यते यतः, अतश्च- अन्तर्बहिश्च करणं साक्षाद् भोगस्य साधनम् | भोग्यं विना न भोगोऽस्तीत्यतो भोगस्य साधनम् || ४९ || आन्तरो बाह्यश्च करणग्रामो भोगस्य सुखदुःखादिसंवेद-नात्मनः साक्षात् करणम् | यदुक्तं श्रीमत्स्वायम्भुवे- भोगोऽस्य वेदना पुंसः सुखदुःखादिलक्षणा इति | स च भोगः स्रक्चन्दनादिभोग्यं विना न स्यादिति तद्ग्रहणपूर्वकस्य सुखाद्यध्यवसायस्यापि साधनमिष्यते || ४९ || एतदेव दृष्टान्तेन प्रकटयति- सैनिकान् विजयायेह प्रयुङ्क्ते नृपतिर्यथा | प्रयुङ्क्ते महदादीनि बोधाद्यर्थमणुस्तथा || ५० || सैनिकस्थे जये राज्ञः कर्तृत्वं तु यथा तथा | बुद्ध्यादिसंस्थे बोधादौ पुंसः कर्तृत्वमिष्यते || ५१ || स्वात्मार्थं सैनिकानां तु विजयो नेति ते यथा | साधनं विजयस्येष्टास्तथैव महदादयः || ५२ || तेषामपि हि बोधाद्यं स्वार्थं नेति विनिश्चितम् | करणानामचेतनत्वात् तद्वृत्तीनां न स्वार्थत्वम्, अपि तु चेतनपुरुषार्थतैवेति भावः || ५०-५२ || ततो बोधादिवृत्तीनां साधनं महदादयः || ५३ || अधुना भोग्यं विभजति- मोहदुःखसुखाकारो रूपाख्यस्तद्भवो द्विधा | बौद्धो बोधः परं भोग्यं मायादि च तदर्थतः || ५४ || उद्भूतगुणत्वेन मोहादिहेतुत्वान्मोहाद्याकारो रूपसंज्ञो धर्मादिभाववर्गः, तदुपादानः सिद्ध्यादिप्रत्ययवर्गश्च द्विविधोऽयं बौद्धो बोधः पुंसः परमव्यवहितं भोग्यम् मायादिकं भुवनादिवस्तु तदन्वयतस्तदर्थत्वाद्भोगाधिकरण- त्वात् परम्परया भोग्यमिति || ५४ || कोऽसौ रूपाख्य इत्यत आह- अधर्मादित्रयं रागो धर्मादि च चतुष्टयम् | तमोरजःसत्त्वमयं रूपं तत्कर्मजं मतौ || ५५ || अधर्माज्ञानानैश्वर्याख्यं रूपं तामसम्, रागस्त्ववैराग्याख्यं राजसम्, धर्मज्ञानवैराग्यैश्वर्याख्यं सात्त्विकमित्येवमष्टविधं रूपं बुद्धौ गुणत्वेन स्थितं कर्मतश्चोपादानाज्जातम् | तत्त्वभुवनशरीरादि तु कर्मणैव सहकारिणा मायाख्यादुपादानात् साक्षात् परम्परया चोत्पन्नमित्युक्तं श्रीमत्स्वायम्भुवादौ || ५५ || एते च- अत्यन्तोच्छेदतो मुक्तावभिव्यक्तेश्च सर्वतः | पटादिबोधावैतत्यादात्मनो न गुणा गुणाः || ५६ || यतो धर्मादीनां मोक्षेऽत्यन्तोच्छेदः परैरपीष्यते, यतश्चात्मस्वभावस्य ज्ञानक्रियात्मनो नित्यस्य व्यापकस्य मुक्तौ सर्वतो व्यापकत्वेनाभिव्यक्तिः श्रूयते, यस्माच्च पटादिज्ञानानामध्यवसायरूपाणामवैतत्यमव्यापकत्वं दृश्यते, तस्मादनित्या अव्यापकाश्चाधर्मादयो नित्यस्य व्यापकस्यात्मनो गुणा भवितुं नार्हन्ति, तत्समवाये तस्य परिणामित्वादिदोषप्रसङ्गात् | एते चाधर्मादयः सांसिद्धिकवैनयिकप्राकृतभेदात् त्रिविधा आत्मन उत्पद्यन्ते | यदुक्तं श्रीमन्मृगेन्द्रे- सांसिद्धिका वैनयिकाः प्राकृताश्च भवन्त्यणोः || विशिष्टधर्मसंस्कारसमुद्दीपितचेतसाम् | गुणः सांसिद्धिको भाति देहापायेऽपि पूर्ववत् || लोकधीगुरुशास्त्रेभ्यो भाति वैनयिको गुणः | समर्जितो वैनयिको मनोवाक्तनुचेष्टया || प्राकृतो देहसंयोगे व्यक्तः स्वप्नादिबोधवत् | (वि० १०|२६-२९) इति || ५६ || अतश्चैवं त्रिविधेभ्यो धर्मादिभ्यः फलभेदानाह- एषामधोगतिर्बन्धो विघातः संसृतिः क्रमात् | स्वर्गो मुक्तिः प्रकृतिभावो विघातश्च फलानि च || ५७ || भवः स्थानापराधोऽथ विघ्नो भोगानतिक्रमः | वश्योर्ध्वस्थितिः सद्दृष्टिभृत्त्वं भोगास्पृहा फलम् || ५८ || स्वचिन्तितेषु वा विघ्नो रूपे सांसिद्धिके फलम् | विनयप्राकृते रूपे पूर्वोक्तफलसंग्रहः || ५९ || वैनयिकेभ्यः प्राकृतेभ्यश्चाधर्मादिभ्यः क्रमादधोगत्यादीनि फलानि भवन्ति | सांसिद्धिकेभ्यस्तु भवादीनि | तत्राऽधोगतिर्नरकप्राप्तिः | बन्धोऽनात्मन्यात्माभिमानितादिः | संसृतिस्तिर्यगादियोनिप्राप्तिः | मुक्तिश्च दर्शनान्तरमोक्षः, परमुक्तेर्दीक्षाफलत्वेन मोक्षकारिकासु वक्ष्यमाणत्वात् | प्रकृतिभावः प्रकृतिलयः | भवः संसारः | स्थानापराधः स्वस्थानान्न्यक्कारः | भोगानतिक्रमो भोगेच्छा | वश्योर्ध्वस्थितिः वश्यानां स्वपदाधःस्थानिगामधिष्ठानम् | सद्दृष्टिभृत्त्वं तत्तद्विषयसम्यग्ज्ञानयोगः | शेषं सुगमम् || ५७-५९ || इत्थं भावान् विचार्य प्रत्ययान् व्याचष्टे- व्यक्ताव्यक्तज्ञसंबुद्धिः सिद्धिः सम्प्रति सिद्ध्यति | रागमात्रानुलिप्ताङ्गाद् धर्मादिसमुदायतः || ६० || इह हि बुद्धौ वासनात्वेन स्थिता धर्मादयोऽष्टौ भावा उच्यन्ते | यदाहुः- भावयन्ति यतो लिङ्गं तेन भावाः प्रकीर्तिताः (पौ०) इति | त एव प्रकर्षावस्थां प्राप्ताः स्थूलेन रूपेण भोग्यदशामापन्नाः संसारिणां प्रत्यायनात् प्रत्ययाः कथ्यन्ते | तदुक्तम्- प्रत्याययन्ति क्षेत्रज्ञं प्रत्ययास्तेन कीर्तिताः (पौ०) इति | अतश्च वैराग्येण राजसेनेषद्युक्तात् सात्त्विकाद् धर्मादिभावचतुष्टयात् सिद्धिरुत्पद्यते | सा च व्यक्तस्य गुणादेरव्यक्तस्य च प्रधानस्य ज्ञस्य च पुरुषस्य संबुद्धिस्तद्विषयं ज्ञानमेव प्रकर्षावस्थां प्राप्ता सिद्धिरुच्यते | उक्तं च- पुंप्रकृत्यादिविषया बुद्धिर्या सिद्धिरत्र सा (मृ० वि० ११|२) इति | तत्र व्यक्ताव्यक्तविषये बुद्धिबोधे तत्प्रकाशकत्वेनात्यन्तं विविक्तः पुरुषः स्वयमेवावभासते, यदाहुः- तदा द्रष्टुः स्वरूपेऽवस्थानम् (यो० सू० १|३) इति; न तु बुद्धिप्रकाश्यतया, भोग्यत्वादिदोषप्रसङ्गात् | यद्वक्ष्यति मोक्षकारिकासु- परिणामी पुमान् भोग्यः प्राप्तस्तद्गोचरो यदि (श्लो० १०५) इति || ६० || धर्मादिरूपसंपृक्ता पापादित्रितयोद्भवा | तुष्टिः कृतार्थविज्ञानमनयाऽऽत्मग्रहे सति || ६१ || सात्त्विकैर्धर्मादिभिरीषत्संपृक्तादधर्मादित्रयात् तामसात् तुष्टिरुत्पद्यते | सा च तुष्टिः प्रागुक्तया भूततन्मात्रादिज्ञान-रूपया सिद्ध्या तत्तद्दर्शनोक्तेन स्वरूपेणात्मनो ग्रहणे सत्यधस्तनविषयाद् वैराग्यादकृतार्थस्यापि कृतार्थोऽस्मीत्युत्पद्यमाना बुद्धिस्तुष्टिरुच्यते | यच्छ्रूयते- तुष्टिर्नुरकृतार्थस्य कृतार्थोऽस्मीति या मतिः (मृ० वि० ११|२) इति || ६१ || अधर्मादित्रयाज्जाता रागलेशानुरञ्जितात् | अशक्तिर्देववैकल्यादसामर्थ्यं शुभादिषु || ६२ || शुभशब्देनात्रोपस्थेन्द्रियव्यापारं आह्लाद उच्यते | तदादिषु इन्द्रियवैकल्यात् तदुपलक्षितशरीरवैकल्याद्वा क्लैब्यबाधिर्यादिरूपं यदसामर्थ्यम्, सेयमशक्तिस्तामसाद् वर्गाद् राजसेनेषत्संपृक्ताद् भवति | उक्तं च- अशक्तिरप्रवृत्तत्वात् तामसी दुःखभावतः | राजस्यपि गुणो दृष्टः कार्ये कारणसंश्रयः || (मृ० वि० ११|६) इति || ६२ || तस्मादेवायथावस्तु विज्ञानं वीतरागतः | ईषद् धर्मादिसंपृक्तादभिव्यक्तो विपर्ययः || ६३ || तस्मात् तामसवर्गाद् राजसहीनात् सात्त्विकतेषद्युक्तादयथार्-थग्रहणरूपो विपर्ययस्तमोमोहमहामोहतामिस्रान्धतामिस्र-लक्षणो जायते | यच्छ्रूयते- किञ्चित्सामान्यतोऽन्यत्र मतिरन्या विपर्ययः (मृ० वि० ११|३) इति || ६३ || इत्थमतिसंक्षेपेणोक्तं भावप्रत्ययात्मकं बुद्धिबोधमुपसंहरति- लेशोक्तो बुद्धिधर्मोऽयम् एषां च भावप्रत्ययानां प्रपञ्चः श्रीमन्मतङ्गादौ विस्तरेण दर्शितः प्रकाशितश्चास्माभिर्मृगेन्द्रवृत्तिदीपिकायामिति तत एवावधार्यः | ग्रन्थविस्तरभयात्तु नात्र लिख्यते || अयं च- चेतनेनोपभुज्यते | भोग्यत्वादिति शेषः || भोग्यत्वमेव साधयति- भोग्यत्वं चास्य संसिद्धं येनोत्पन्नोऽनुभूयते || ६४ || स चाप्यनुभवो भोगो भोक्तारं गमयत्यलम् | अस्य बौद्धस्य ज्ञानस्योत्पत्त्यपवर्गयोगित्वेन भोग्यत्वमेव, न तु भोक्तृत्वम्, तस्य सर्वदा ग्राहकरूपेण स्थिरस्यैव स्वसंवेदनसिद्धत्वादित्युक्तम् || ६४ || अतश्च- साधयित्रा विना यस्मात् सिद्धिर्नेह समीहिता || ६५ || इह हि बुद्धिचैतन्यवादिभिर्बौद्धैर्भोक्तृत्वेनाभ्युपगत-स्यास्य बौद्धस्य ज्ञानस्यास्थिरत्वेन घटादिवदचेतनत्वात् कालान्तरभाविकर्मफलभोक्तृत्वासंभवादुक्तवद्भोग्यत्वाच्च स तत्तद्विषयसुखाद्यनुभवरूपो भोग एव भोक्तारं साधयति | यतो भोगक्रियासिद्धिर्भोक्तारं चेष्टमानमन्तरेण न संभवति, भोगस्यापि क्रियात्वात् | तत्कर्तृत्वेनाप्यात्मसिद्धिरिति भावः | समीहिता, अभीष्टेत्यर्थः || ६५ || अत्र चोदयति- न विना दृष्टसंवादमनुमानस्य मानता | इह हि धूमेनानुमितोऽग्निरासीदता प्रत्यक्षीक्रियत इति तस्यानुमानस्य प्रमाणान्तरसंवादो दृश्यते | अत एव तस्य प्रामाण्यम् || चक्रमुर्धादौ धूमादेरिव साध्यव्यभिचारादर्शनात् ततश्चात्राप्यनुभवात्मनो ज्ञानस्यैव दर्शनाद् ज्ञातृज्ञानयोराकारभेदानुपलम्भाद् भोगाद् भोक्त्रनुमानस्यापि व्यभिचारशङ्कया प्रमाणत्वाभावान्न भोक्तुर्ज्ञानव्यतिरिक्तस्यात्मनः सिद्धिरिति सौगताः | यदाहुः- एकमेवेदं संविद्रूपं सर्षविषादाद्यनेकाकारविवर्तं पश्यामः | तत्र यथेष्टं संज्ञाः क्रियन्ताम् इति | तदयुक्तमित्याह- दृष्टस्य केन संवादो येन तस्यास्ति मानता || ६६ || अयमभिप्रायः- भोगस्य विषयसंवेदनात्मनोऽनुभवस्य बाह्यविषयासन्निधानेऽपि सुषुप्त्यादावान्तरदेहस्पर्शमात्रविषयत्वेन स्थिरतयैव भासमानत्वात् स्थिरत्वेन स्वसंवेदनप्रत्यक्षसिद्धो ग्राहकरूपो आत्मेत्युक्तम् | न च ज्ञानस्य क्षणिकस्य स्वात्मनि क्रियाविरोधेन स्थैर्याध्यारोपो युक्तः | यदप्युक्तम्- अक्षणिकस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधात् यत्सत् तत्सर्वं क्षणिकमिति, तदपि न, अक्षणिकस्यैव मण्यादेः क्रंएण घटादीन् भावानवभासयतो युगपच्चैकगृहगतांस्तांस्तांस्तानर्थान् प्रकाशयतोऽनुभवसिद्धत्वात् | क्षणिकस्य चोत्पत्तिकाल एव नश्यतोऽनेकक्षणनिर्वर्त्यक्रियानुष्ठानाक्षमत्वादित्यादि विस्तरेण श्रीमन्मतङ्गवृत्त्यादावाचार्यैः साधितमिति || ६६ || ततश्चात्मनः स्वसंवेदनसिद्धत्वेऽप्यनुमेयत्वमभ्युपगम्योच्यते - नेह प्रमाणसंवादः प्रत्यक्षस्य प्रमाणतः | नात्र प्रमाणस्य प्रमाणन्तरसंवादापेक्षा, प्रत्यक्षस्य प्रमाणान्तरसंवादाभावेऽप्यनधिगतविषयज्ञानजनकत्वेन प्रामाण्यात् | तदाहुः - अनधिगतार्थगन्तृ प्रमाणम् इति | कथं पुनश्चक्रमूर्धादौ व्यभिचारोऽत आह - अन्वयव्यतिरेकाभ्यां व्यभिचारनिराकृतिः || ६७ || यस्य धूमादेर्येनाऽविनाभावलक्षणः संबन्धोऽन्वयव्यतिरेकाभ्यां निश्चितः, न तस्य तत्र व्यभिचारो दृश्यते | सुविवेचितस्य धूमस्याऽग्नाविव | चक्रमूर्धादिजन्यस्य तु स्वरूपाविवेकेन धूमत्वभ्रान्तिः | ततश्चात्रापि क्रियायाः सर्वत्र कर्तृपूर्वकत्वदर्शनाद् भोगक्रियया भोक्ताऽनुमीयते || ६७ || भवद्भिरपि स्वदेहे बुद्धिपूर्वकत्वेन सिद्धात् कार्यादिव्यवहारात् परशरीरे बुद्धिः प्रमाणान्तरसंवादं विनाऽप्यनुमानेनाऽनुमीयत इत्याह - देहधर्मस्य मानत्वे कारणं बुद्धिरिष्यते | देहधर्मस्य चेष्टाद्यात्मनो मानत्वे हेतुत्वे सति तेन परशरीरे तद्द्धेतुर्बुद्धिः साध्यत इत्यर्थः | यदाहुः - बुद्धिःपूर्वा क्रियां दृष्ट्वा स्वदेहेऽन्यत्र तद्ग्रहात् | ज्ञायते धीः इति || अतश्च रूपादिदर्शनान्यथानुपपत्त्या चक्षुरादीन्द्रियवद् भोगान्यथानुपपत्त्या भोक्तृसिद्धिरित्यभिप्रायेणाह - अस्मात् सामान्यतो दृष्टादन्यस्यापि प्रमाणता || ६८ || अनुमानस्य संसिद्धा यदुक्तं चार्वाकैः - अस्तु भोक्ता | स तु परिदृश्यमानपृथिव्यादिचतुर्भूतविकारसमाहारात्मकः काय एव | तस्यैव परिणामविशेषेण किण्वादिद्रव्यविकारेण मदशक्त्यभिव्यक्तिवच्चैतन्याभिव्यक्तिः, प्राणादिवायुबलेन भोगादिक्रियादर्शनाच्च | न तु ततोऽन्यः, तस्य प्रत्यक्षेणादर्शनात् | यदाहुः- दृष्टे संभवत्यदृष्टपरिकल्पना न न्यायया इति | तदपि निराकृतमित्याह- कारणादत एव हि | चेतनो बुद्धिबोधस्य भोक्ता मानसमर्थितः || ६९ || पृथिव्यादिसमाहारो भवत्विति न युक्तिमत् | अयमभिप्रायः- यतः शरीरस्याप्यन्तः शूलाद्यात्मना बहिश्च मृदुकर्कशादिना स्पर्शेन भोग्यत्वदर्शनाद् घटादिवच्चेतनत्वं न युक्तम्, ततस्तस्यापि भोक्तृत्वेनाऽऽत्मा सिद्ध इति || ६९ || चेतनत्वं चास्य न प्रमाणोपपन्नमित्याह- चैतन्यं हि त्वया तस्य केन मानेन निश्चितम् || ७० || ननु शुक्लशोणितात्मकदेहारम्भकभूतसद्भाव एव चैतन्यदर्शनात् तदभावे चाऽदर्शनाद् देहात्मकमेव चैतन्यमत आह- सति भावेऽप्यनैकान्तः शवशरीरे गर्भादौ वा देहात्मकभूतसद्भावेऽपि चैतन्याऽदर्शनान्न देहात्मकं चैतन्यम्, ततश्च शरीराऽऽत्मवादो न प्रमाणोपपन्न इत्याह- तस्माद् वायसवाशितम् | भोग्यत्वाच्चास्याऽचेतनत्वमित्याह- अनभिव्यक्तचैतन्या दृष्टा भोग्या गुडादयः || ७१ || जीवच्छायोपभोग्यत्वादस्तु तुल्यो गुडादिभिः | गुडादयो हि जीवस्याऽऽत्मनश्छाययाऽनुभवात्मना संविदा भोग्यत्वेन ग्राह्यतया विषयीक्रियमाणाः कदाचिदप्यभिव्यक्तचेतना न दृष्टाः | ततः कायाऽऽत्मापि भूतसमाहारः प्रोक्तवद्ग्राह्यत्वेन भोग्यतया विषयीकरणादचेतन एवेति न तस्य भोक्तृत्वमुपपद्यते | किञ्च, दहस्यैव चेतनत्वे तस्याऽसकृत्परिणामेन विनाशाद् बाल्यावस्थाऽनुभूतं वृद्धावस्थायां स्मर्यमाणं नोपपद्यत इत्यादि विस्तरेण निराकृतोऽयं पक्षोऽस्माभिः श्रीमन्मृगेन्द्रवृत्तिदीपिकायाम् || ७१ || ननु शरीरव्यतिरिक्तानामिन्द्रियाणामेव भोक्तृत्वमस्तु, नान्यस्येतीन्द्रियचैतनिकाः, तदयुक्तमित्याह- भोग्यत्वकरणत्वाभ्यामिन्द्रियाणां विनिश्चितम् || ७२ || अचैतन्यमतो भोक्ता पुरुषश्चित्स्वभावकः | उक्तवदिन्द्रियाणामपि भोगार्थतया भोग्यत्वात् करणत्वाच्छस्त्रादिवदचेतनत्वमनिवार्यमेव, अतो नैषां कर्तृत्वम्, अपि तु चित्स्वभावस्यात्मन एव | तस्यैव हि सर्वान्यकारकप्रवृत्तिनिवृत्तिहेतुत्वेन कर्तृत्वं युक्तम् | यदाहुः- प्रवृत्तौ च निवृत्तौ च कारकाणां य ईश्वरः | अप्रवृत्तः प्रवृत्तो वा स कर्ता नाम कारकः || इति || ७२ || भोक्तुर्भोगश्चितेर्व्यक्तिर्भोग्यच्छायानुरञ्जिता || ७३ || भोग्याया बुद्धेः सुखादिरूपायाश्छायया आकारेणानुरञ्जिता चैतन्यव्यक्तिरेव भोक्तुर्भोगः | यदुक्तं श्रीमत्स्वायंभुवे- भोगोऽस्य वेदना पुंसः सुखदुः?खादिलक्षणा इति || ७३ || तदानीं च- अचितश्चितिसंबन्धाद् भोग्यमाभाति चेतनम् | अचेतनमपि बुद्ध्यात्मकं भोग्यं तस्यात्मनश्चैतन्यसंश्लेषाच्चेतनवदाभासते | तदुक्तं सांख्यैरपि- अचेतनं चेतनावदिव लिङ्गम् (सां० का० २०) इति || एवं च- भोग्यद्वारेण पाशानां पशूनां च परस्परम् || ७४ || चेतनाचेतनच्छायानुषङ्गो भासते भृशम् | भोग्यं हि वस्तु चित्ताधिष्ठितं बुद्धीन्द्रियवृन्दमात्मनो विषयत्वेनोपस्थापयति तच्च बुद्ध्याऽध्यवसितं पुरुषो गृह्णाति | यदाहुः (पूर्वतनी ७८ पृष्ठस्था द्वितीया टिप्पणी द्रष्टव्या |)- बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयति इति | ततश्च प्रकाशरूपत्वादादर्शस्थानीयेन भोगाख्येन बुद्धिबोधात्मना द्वारेणात्मनां भोक्तृणां पाशानां च विषयरूपेण परिणतानां भोग्यानां चेतनाचेतनरूपयोश्छाययोः प्रतिबिम्बितयोराकारानुषङ्गः संश्लेषमात्रं भृषमत्यर्थमेकाकारतया भासते | अत एवात्रानात्मादौ आत्मादिभ्रमः संसारिणाम् | तद्विवेकज्ञाने तु तेषां प्रकृतिलय इत्युक्तम् | स एव च सांख्यानां मोक्षः || ७४ || अतश्च- भोग्ये भोगः प्रभोश्छाया यथा चन्द्रमसो जले || ७५ || प्रभोर्व्यापकस्यात्मनः स एव भोग्यविषयो भोगः, या तदध्यवसायात्मनि बुद्धिबोधे चन्द्रमस इव जले छायाविशिष्टा चैतन्याभिव्यक्तिः | चन्द्रबिम्बस्य जडत्वात् स्थूलत्वाच्च विशिष्टस्वरूपाभिव्यक्तिमात्र एवात्र दृष्टान्तत्वम् | अतो भोक्तृत्वाच्चेतनस्य पुरुषस्यैव कर्तृत्वं नाचेतनानां भोग्यानां बुद्ध्यादीनामिति मन्तव्यम् || ७५ || ननु क्रियावेशो हि कर्तृत्वम् | स यदि पुंसः स्यात् परिणामिता भवेत् | पुरुषो हि निर्विकारः, ततो नास्य कर्तृत्वम्, किन्तु प्रकृतेरेव | सा हि विवेकज्ञानात् पूर्वं महदादिरूपेण भोग्यतया तस्यात्मानं दर्शयतीति संसार इत्युच्यते | तत्संभवे तु तस्मान्निवर्तमाना मुक्तिशब्दाभिधेयेति सांख्याः | यदुक्तं तैः- रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा रङ्गात् | पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः || (सां० का० ५९) इति अत आह- परिणामभयात् पुंसि भोगे चानीप्सिते सति | अविशेषो दुरापोहः प्रसक्तो भोक्तृमुक्तयोः || ७६ || अयमभिप्रायः- नात्र क्रियावेशः कर्तृत्वम्, अपि तु क्रियायां शक्तत्वमेव | तथाहि- अयस्कान्तसन्निधानादयस इवात्मनः सन्निधेः शरीरादेरेव स्पन्दादिरूपः क्रियावेशो दृश्यते | ततश्च बुद्ध्यादिविषयीकरणरूपे भोगे पुंसो न परिणामप्रसङ्गः, किन्तु तत्परत्वेन तद्विषयीकरणमेव | भवत्पक्षे तु पुंसो निर्मलत्वेन तत्परत्वेऽप्यनभ्युपगम्यमाने भोक्तृमुक्तयोरविशेषो दुर्निवारः प्रसज्यते, उभयोरप्यनपेक्षत्वेन तुल्यत्वात् || ७६ || ननु परार्थप्रवृत्ता प्रकृतिरेव तदर्थं प्रवर्तत इत्युक्तम्, यदाहुः- वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य | पुरुषविमोक्षनिमित्तं यथा प्रधानस्य || (सां० का० ५७) इति, अत आह- पुमर्थाय च पाशानां प्रवृत्तिर्विनिवारिता | अयमभिप्रायः- अचेतनत्वादेव प्रधानस्य पुरुषं प्रति प्रवृत्तिर्न युक्ता, क्षीरादेरपि चेतनगवाद्यधिष्ठितस्यैव प्रवृत्तिदृष्टेः | वायुजलादीनामपि पक्षीकृतत्वाच्च तत्प्रवृत्त्यभ्युपगमेऽपि न निरपेक्षं प्रति प्रवृत्तिर्युक्ता | निरपेक्षं प्रति प्रवृत्तौ वा मुक्तस्यापि प्रवर्तते | ततश्च बद्धात्मनि साभिलाषत्वे भोगार्थं समुद्योगादात्मनि विकारे चाऽनभ्युपगम्यमाने तस्मिन् भोगोऽपि न युक्तिमानित्याह- भोक्तर्यविकृते भोगो मुक्तवन्नोपपद्यते || ७७ || नन्वविवेक एव प्रधानप्रवृत्तेर्हेतुः | प्रकृतिपुरुषविवेकज्ञाने तु तं प्रत्युपरताधिकारत्वान्न प्रवर्तते | अतो न बद्धमुक्तयोरविशेषः | यदाहुः- प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति | या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य || (सां० का० ६१) इति; तदयुक्तम्, भवत्पक्षे पुंसो निर्मलत्वेनाविवेकायोगात्, निर्हेतुके चाविवेके सर्वदा विवेकाभावप्रसङ्गाच्च | तस्मादविवेकान्यथानुपपत्त्यापि तस्य समलत्वसरागताद्यभ्युपगन्तव्यमिति वक्ष्यामः || ७७ || यद्येवमात्मनः समलत्वेनाज्ञस्वभावत्वे शरीरादियोगेन ज्ञातृतया विकारे चाभ्युपगम्यमाने स्वभावान्तरयोगादनित्यत्वप्रसङ्ग इति परमतमाशङ्कते- विकारित्वादनित्यश्चेत् भोक्तेति शेषः | परिहरति- मायासाध्यं न मन्यते | मायया स्वकार्यैः सूक्ष्मबाह्यशरीरद्वारेण क्रियमाणं विशेषं न जानीते भवानिति शेषः | ततो नानित्यत्वादिदोष इत्यभिप्रायः || कथमित्यत आह- स्वरूपव्यक्तिलाभाच्च न विकारो न नाशिता || ७८ || नास्माभिर्नैयायिकादिवज्जडरूप एवाऽऽत्मा इष्यते, अपि तु ज्ञस्वभाव एव | स तु तस्य स्वभावः शरीरादियोगं विनाऽनभिव्यक्तेरनादिना केनाऽपि प्रतिबद्धोऽवसीयते, स च मल एवेति वक्ष्यामः | ततश्च मायया कलादिभिः स्वकार्यैर्मलव्युदासेनैकदेशस्वरूपव्यक्तिरेवात्मनः क्रियते | मलपरिपाके तु दीक्षाख्यया शिवशक्त्या सर्वविषयोऽभिव्यज्यते | ततो नास्य विकारो विनाशिता चेति || ७८ || अस्य च- भोग्योपधानरागश्च स्वच्छत्वान्नोक्तकारणात् | अतो भोग्यविषयोपधानजनितो रागोऽपि सुखदुःखमोहाकारः प्रकाशोऽस्य स्फटिकस्येव स्वच्छत्वात् प्रकाशरूपत्वात्, न तु पूर्वोक्तात् परिणामाख्यात् कारणात् | स च विषयोपरागोऽप्यस्य तत्परतया तद्विषयीकरणमेवेत्युक्तम् || ततो भोग्यस्य शरीरस्यासकृत्परिणामेऽपि भोक्तुर्न परिणाम इत्याह- शरीरपरिणामेन परिणामी न पुद्गलः || ७९ || स यतोऽचेतनो भोग्यो बुद्धिवत् परिणामतः | तस्यापि परिणामाभ्युपगमे बुद्ध्यादिवद्भोग्यत्वमचेतनत्वं च स्यादित्यर्थः || ७९ || तत्र परमतमुपन्यस्य दूषयति- चैतन्यं हि गुणो ज्ञानं समवायोऽथ तेन वा || ८० || स्वरूपं पुरुषस्येति नान्यदस्य न युक्तिमत् | एवं हि नैयायिकादयो मन्यन्ते- जडस्वभाव एवाऽऽत्मा, तस्य मनःसंयोगाद् गुणतया ज्ञानं समवेतमुत्पद्यते | तदेव च तस्य चैतन्यम्, नान्यज्ज्ञस्वभावत्वमिति | तदयुक्तम्, जडत्वे तस्य घटादिवज्ज्ञानसमवायायोगादिति || ८० || नन्वत्र नियामकं कर्मादृष्टाख्यमस्ति, यत्कर्मसमानाधिकरणे पुरुष एव ज्ञानं समवेतमुत्पद्यते, नान्यत्र तद्व्यधिकरणे घटादाविति, अत आह- अज्ञे नर्येव विज्ञानं नान्यत्रेति नियामकम् || ८१ || कर्माऽपि नोपपन्नं तु तदन्यत्र स्थितं यतः | कर्मणः कृष्यादेरिव प्रकृतिसंस्कारत्वमेव नात्मसंस्कारत्वम्, विकारित्वप्रसङ्गादित्युक्तम् | ततस्तदपि नात्र नियामकं भवितुमर्हति | ततश्चैतन्यसमवायाच्चित्स्वभाव एवात्मा सिद्ध इत्याह- मोहो मोहस्वभावेभ्यो यद्वन्नार्थान्तरं बुधाः || ८२ || चैतन्येभ्यः पदार्थेभ्यस्तद्वन्नार्थान्तरं चितिः | चैतन्यात्मनो ज्ञानस्यात्मधर्मत्वाद् धर्मनाशे धर्मिणोऽपि तदव्यतिरेकान्नाशः प्रसज्यत इति सर्वदा चेतनस्वभाव एवात्माभ्युपगन्तव्यः | तस्य च मलावृतत्वान्मनोबुद्ध्यादयस्तदभिव्यञ्जकतया सिद्धा इत्युक्तम् | अस्य च भोगक्रियायामुपकारकतया सहकारिभूतं प्रयोक्तृकरणरञ्जकरूपं कलाविद्यारागाख्यं कञ्चुकत्रयं प्रकृतिसाधनात् पश्चादभिधास्यत इत्याह- प्रयोक्तृकरणं भोग्ये रञ्जकं चोपरि त्रयम् || ८३ || अस्य भोगक्रियाकर्तुः प्रक्ट्रेरुपदेक्ष्यते | इत्थं प्रसङ्गाद् भोक्तारं प्रसाध्य प्रकृते बुद्धेरेवाहङ्कारस्योत्पत्तिरित्याह- बुद्धेः स्कन्धोऽपरो भिन्नो योऽहङ्कारमजीजनत् || ८४ || जनितारो गुणा येन दृष्टास्तत्प्रतिभादिषु | येन कारणेन तस्या बुद्धेः प्रतिभादिषु वृत्तिषु प्रोक्तेन नयेन परस्पराभिभवेनाश्रयान्मिथुनीभावाच्च कार्यस्योत्पादयितारो गुणाः दृष्टाः, यदुक्तं सांख्यैः- अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः (सां० का० १२) इति, तेन बुद्धेरेवाध्यवसायहेतोः स्कन्धादन्यो भागो गुणसंपृक्तोऽहङ्कारमजीजनत् | ततश्च नह्येकं जनकमिति न्यायेनान्योन्यसंपृक्ता एव गुणा जनकास्तथैव च सर्वेषु पदार्थेषु वर्तन्ते | सात्त्विकादिव्यवहारस्तु तेषां सत्त्वादिबाहुल्यादिति भावः || ८४ || साक्षाद्गुणकार्यत्वादेव चास्यां गुणान्वयो घटादिषु मृदाकारान्वयवदित्याह- प्रथमा विकृतिः साऽतो गुणानां तत्र युज्यते || ८५ || उद्भवाभिभवाभ्यां तु नियमेन व्यवस्थितिः | गुणा हि तस्यां नियमेन परम्पराभिभवेन भवन्तः सिद्ध्यादिजनका इत्युक्तम्, यद्येवमहङ्कारस्यापि गुणान्वयाद् गुणेभ्य एवोत्पत्तिरस्तु, अत आह- अहङ्कारेऽप्ययं न्याय इति मा जल्प पण्डित || ८६ || अन्योन्यविकृतित्वात् तन्मात्रास्वप्यनुषज्यते | अहङ्कारादिभूतान्तानां सर्वेषामप्यन्योन्यविकृतित्वात् प्रोक्तवत्परम्परया गुणविकारत्वान्न केवलमहङ्कार एव तन्मात्रास्वपि, अपिशब्दादिन्द्रियवर्गे भूतवर्गे च गुणान्वयोऽनुषज्यत एव, घटकपालादिषु मृदाकारान्वयवत् | न तु सर्वेषां साक्षाद् गुणेभ्य एवोत्पत्तिरित्यदोषः || ८६ || अथ के ते गुणाः ? कैर्व्यापारैश्च तेषां सिद्धिरित्यत आह- सत्त्वं रजस्तमश्चेति कारणानि धियो गुणाः || ८७ || प्रख्याव्यापारनियमैः पुंयोगं ये वितेनिरे | प्रोक्तवद्बुद्ध्यादिद्वारेण भावप्रत्ययादिरूपं पुरुषभोग्यं वस्तु ये सर्गादौ चक्ररुत्पादितवन्तः, अधुनापि कुर्वते, ते बुद्धेरपि कारणं गुणा इति | एते च परस्परावियोगादेकमेव तत्त्वम् | यच्छ्रूयते- त्रयो गुणास्तथाप्येकं तत्त्वं तदवियोगतः (मृ० वि० १०|२१) इति | ततो बुद्धिकारणतया प्रकाशप्रवृत्तिनियमाख्यैर्व्यापारैः सत्त्वादीनां सिद्धिः | एते च प्राधान्यात् प्रदर्शिताः, अन्येषामपि स्थैर्यधैर्यादीनां शौर्यक्रौर्यादीनामरतिमान्द्यादीनां गुणकार्याणामागमेषु श्रवणात् || ८७ || ननु गुणा एव प्रधानाख्यया नित्यत्वेन स्थिता इति सांख्याः, तदयुक्तमित्याह- अचैतन्येऽप्यनेकत्वसंख्यासंबन्धहेतुतः || ८८ || तेषां कारणपूर्वत्वमिष्टं बुद्धिघटादिवत् | यत एषामनेकत्वसंख्यासंबन्धादनेकत्वम्, ततोऽनेकत्वादचेतनत्वाच्च घटादिवत् कार्यत्वसिद्धिः || ८८ || किं तेषामुपादानमित्यत आह- उपादानं गुणानां यत् प्रकृतिः साभिधीयते || ८९ || अविभागस्थिता यस्यां निर्गच्छन्ति शिवेरिता | यस्यां सूक्ष्मत्वेनाविभागेन स्थिता गुणाः शिवप्रेरणेन स्वस्वप्रवृत्तिविभागैः स्थूला अभिव्यज्यन्ते, सा प्रकृतिः | शिवेरितेति चाचेतनत्वान्नास्याः स्वातन्त्र्येण प्रवृत्तिरिति दर्शयति | अस्याश्च प्रतिपुरुषं सूक्ष्मदेहवर्तित्वेनानेकत्वात् कार्यत्वमिति वक्ष्यामः || ८९ || अथ पुरुषस्य कलादिपञ्चकञ्चुकयुक्तस्य भोक्तृत्वेन पुंस्त्वमलयोगाद् दीक्षायां तच्छुद्ध्यर्थं प्रकृतितत्त्वादूर्ध्वमागमेषु पाठे सत्यपि तस्य व्यापकत्वाच्चेतनत्वेन भोक्तृत्वाच्चाध्वरूपत्वं भोगसाधनत्वं च न संभवतीति तमुपेक्ष्य तस्यैव रञ्जकत्वेन प्रागुक्तं रागतत्त्वं साधयितुमाह- भोग्यानुभवमासाद्य भोग्ये सक्तिः प्रवर्तते || ९० || तत्सिद्ध्यर्तं ततस्तस्य रागो भोगानुरञ्जकः | इह हि संसारावस्थायां पुरुषस्य भोग्यं दृष्ट्वा तस्मिन् सक्तिः प्रवर्तते | सा च नाहेतुरुत्पद्यते, मुक्त्यवस्थायामपि प्रसङ्गात् | अतस्तस्य पुंसस्तस्याः सक्तेः सिध्यर्थं भोगाभिलाषजनको रागोऽभ्युपगन्तव्यः || ९० || अत्र पराभिप्रायः- सत्त्वं रजस्तमतो युक्तं विषयेष्वनुरञ्जकम् || ९१ || बुद्धावभ्युदितं पुंसस्तस्मादन्यो निरर्थकः | परिहरति- तन्मतावुदितं भोग्यं तस्मिन् योऽस्यानुरञ्जकः || ९२ || स रागोऽन्यः प्रमन्तव्यो रूपेऽप्येतद्धि दूषणम् | सात्त्विकादिभोगसाधनविषयाकाराध्यवसायद्वारेण बुद्धावुदितस्य सुखदुःखमोहरूपेण परिणतस्य सत्त्वादिगुणत्रयस्यैव साक्षाद्भोग्यत्वात् तस्मिन्नपि भोग्ये यः पुंसोऽभिलाषजनकः, स तस्माद्विषयगुणादिरूपेण बुद्धावुदितात् सत्त्वादिगुणत्रयाद्भोग्यरूपादन्यो ग्राहकगतो रागो मन्तव्यः | भोग्यस्यैवाऽभिलाषजनकत्वे वीतरागाभावप्रसङ्ग इति भावः | तदुक्तं तत्त्वसंग्रहे- भोग्यविशेषे रागे नहि कश्चिद्वीतरागः स्यात् (श्लो० १०) इति | यद्येवमवैराग्यलक्षणो बुद्धिधर्म एव रागोऽस्त्वत आह- रूपेऽप्येतद्धि दूषणमिति | अयमभिप्रायः- अवैराग्यलक्षणस्य रूपस्य तावद्वासनारूपत्वान्न कार्यकरत्वम्, वासनावस्थायामपि कार्यकरत्वे बुद्धेरनन्तवासनायोगेन पुंसो युगपद्विरुद्धाऽनन्तप्रतिपत्तिवैशसप्रसङ्गात् | प्रत्ययात्मना स्थूलरूपेण भोग्यदशामापन्नेन तस्मिन् रागेऽभ्युपगम्यमानेऽपि प्राग्वद्वीतरागाभावप्रसङ्ग इति तयोरन्यो रागोऽभ्युपगन्तव्य इति | कर्मैव रञ्जकमस्त्विति चेन्न, तस्य कृष्यादिवत्फलजनन एव चरितार्थत्वात्, कार्यान्तरहेतुत्वे प्रमाणाभावात्, अनेकतत्त्वपरिकल्पनाभावप्रसङ्गाच्च || ९२ || अथ विद्यासिद्धिः- करणं न विना कर्तुः कृतिः कर्मणि दृश्यते || ९३ || अतोऽस्ति करणं विद्या बुद्धिबोधविवेचिनी | प्रोक्तवदिन्द्रियाणां विषयोपस्थापकत्वेनोपयोगात् तस्मिन् बुद्धिबोधाख्ये कर्मणि ग्राह्ये ग्रहणक्रियायां पुंसः केनापि करणेन भवितव्यम् | यत्तत्करणं सा विद्येति || ९३ || अत्र परः- प्रदीपवन्मतिस्तस्य स्वपरात्मप्रकाशिका || ९४ || विद्यते करणं पुंसो विद्यया किं करिष्यति | बुद्धेः प्रकाशरूपत्वात् प्रदीपवद्विषयाकारं स्वात्मानमपि प्रकाशयतीति न करणान्तरसिद्धिः || ९४ || परिहरति- प्रदीपः करणं पुंसः स्तम्भाद्यर्थोपलब्धिषु || ९५ || दीपोपलब्धौ चक्षुश्च बुद्धावप्येवमिष्यताम् | बुद्धेरपि ग्राह्यत्वेन कर्मत्वात् करणापेक्षाऽस्तीत्युक्तमिति भावः | उक्तं च तत्त्वसंग्रहे- रविवत् प्रकाशरूपो यदि नाम महांस्तथापि कर्मत्वात् | करणान्तरसापेक्षः सक्तो ग्राहयितुमात्मानम् || (श्लो० १४) इति || ९५ || एतदेव दर्शयति- त्रैगुण्यात् सा विवेकेन शक्ता दर्शयितुं नहि || ९६ || विषयाकारमात्मानमविविक्ता यतः स्वयम् | विद्या गुणपरा वेद्यं विविक्ताऽतो विवेकतः || ९७ || शक्ता दर्शयितुं पुंसो नाऽत्र कार्योऽतिमत्सरः | बुद्धेस्त्रिगुणात्मकत्वेन भोग्याकारविवेकात् कर्मतया न स्वात्मप्रकाशकत्वं प्रदीपादिवत् | विद्या तु तदतीतत्वेन भोग्याकाराद् विविक्ता सती पुंसो वेद्यं करणान्तरनिरपेक्षा प्रकाशयत्येवेति || ९६-९७ || अथ कलाया व्यापारः कथ्यते- कर्मादिकारकानीकप्रयोक्ता भोगसिद्धये || ९८ || स्वतन्त्रः पुरुषः कर्ता कला तस्य प्रयोजिका | भोक्तृत्वेन भोगार्थं बुद्ध्यादिकारकव्रातप्रयोक्तृत्वात् कर्ता पुरुष इत्युक्तम्- प्रवृत्तौ च निवृत्तौ च कारकाणां य ईश्वरः | अप्रवृत्तः प्रवृत्तो वा स कर्ता नाम कारकः || इति | तस्य च भोगक्रियायां वक्ष्यमाणवत् सामर्थ्योपोद्बलनेन प्रयोजिका कला शास्त्रेषूच्यते || ९८ || नन्वकर्तैव पुरुष इति सांख्याः, तदयुक्तमित्याह- अकर्तृत्वाऽभ्युपगमे भोक्तृशब्दो निरर्थकः || ९९ || उपादानप्रवृत्तेश्च निष्फलत्वं प्रसज्यते | भोगस्याऽपि क्रियात्वाद् भोक्तृत्वेनैव पुंसः कर्तृत्वं सिद्ध्यति | तस्मिन्नकर्तर्यभ्युपगम्यमाने तद्भोगार्थं प्रधानस्याऽपि प्रवृत्तिर्निष्फला स्यात्, अकर्तरि करणादिसंबन्धस्य निरर्थकत्वात् || ९९ || किञ्च- कर्तृमत् कर्मदेवादि क्रियासाधनभावतः || १०० || वास्यादिवदतः कर्ता परिज्ञेयो विभुः पुमान् | अविभुत्वे ह्यात्मनो गगनादिवदमूर्तत्वाद् देशान्तरनयनाऽसंभवेन दाक्षिणात्यादेः काश्मीरादौ दृश्यमानो देशान्तरफलभोगोऽनुपपन्न इति तदन्यथाऽनुपपत्त्याऽऽत्मा व्यापकोऽभ्युपगन्तव्य इति | उक्तं च श्रीमत्पराख्यादौ- कर्तृशक्तिं व्यनक्त्यस्य कलाऽस्यातः प्रयोजिका | ततः कलासमायुक्तो भोगेऽणुः कर्तृकारकः || इति | अस्य कर्तुः पुंसः कर्तृशक्तिः शक्तेरेकत्वाज्ज्ञानक्रियाशक्तिर्वक्ष्यमाणवद् मलावृतत्वेनार्थषु न प्रवर्तत इति प्रदीपवत् प्रकाशरूपा कलैकदेशे मलविदारणेन तानभिव्यनक्ति प्रकाशयति | ततः सा प्रयोजिका हेतुः कर्त्री भण्यते | स चाणुः पुरुषस्तयाऽत्यन्ताविवेकेन भासमानो भोगक्रियाणां कर्तृकारकमुच्यते | स हि भोक्तृत्वात् कर्ता, कला तु तत्प्रयोजिकात्वात् कारकमिति | तदुक्तं श्रीमन्मृगेन्द्रे- इत्येतदुभयं विप्र संभूयाऽनन्यवत् स्थितम् | भोगक्रियाविधौ जन्तोर्निजगुः कर्तृकारकम् || (वि० १०|७) इति || १०० || अन्यथाहि- व्यक्तिकर्त्रनपेक्षस्य कर्तृभावे समीहिते || १०१ || आत्मनः प्राक्कलायोगात् प्रसक्ता सर्वकर्तृता | सर्वकर्तृत्वसंबन्धात् सर्वज्ञः परमेशवत् || १०२ || सर्वज्ञत्वादयुक्ताऽस्य स्वात्मदुःखाय कर्तृता | आत्मनो हि निर्मलत्वेन कलानपेक्षस्यैव कर्तृत्वेऽभ्युपगम्य-माने शिववत् कलादिपाशात्मकशरीरसंबन्धं विनैव सर्वकर्तृत्वम्, अज्ञातस्य करणासंभवेन सर्वज्ञत्वं च भवेत् | निरावरणत्वेन शिवेनाऽनधिष्ठितस्य स्वतन्त्रस्याऽस्य स्वात्मन एव दुःखाय शरीरादिकर्तृत्वं न युज्यते | अतोऽस्य सुखोत्पादादौ पारतन्त्र्यदर्शनाद् बद्धत्वं समलत्वं च निश्चीयते | तत एव चाऽस्यासर्वकर्तृत्वमसर्वज्ञत्वं च संसारावस्थायां दृश्यते || १०१-१०२ || ततो मलावृतत्वादस्य भोगे विषये किञ्चिज्ज्ञत्वकर्तृत्वयोरपि फलानुग्रहापेक्षा सिद्धेत्याह- न चास्य सर्वकर्तृत्वं बद्धत्वाद् गोवृषादिवत् || १०३ || कलानुग्रहसापेक्षा भोगे तेनाऽस्य कर्तृता | इत्थं कलां प्रसाध्य तस्या एव विद्यारागाव्यक्तानामुद्भव इत्याह- स्कन्धोऽपरः कलायास्तु यस्मादेताः प्रजज्ञिरे || १०४ || विद्यारागप्रकृतयो युग्मायुग्मक्रमेण तु | युग्मक्रमेण रागविद्ये सहैव जायेते, अव्यक्तं तु पृथगयुग्मक्रमेणेत्यर्थः | उक्तं च श्रीमद्रौरवे- कलातत्त्वाद्रागविद्ये द्वे तत्त्वे संबभूवतुः | अव्यक्तं च (२|१५) इति | अत्र कर्मफलभोगस्य कालाऽवच्छेदं भोक्तृनियमं च विनाऽनुत्पत्तेः कालनियत्याख्यं तत्त्वद्वयमागमेषु श्रूयमाणमर्थसिद्धत्वादाचार्येणाऽनुपात्तम् | तथाहि- कृष्यादिवत् कर्मफलानां राजनियमाऽभावे दस्युभिरपहारदर्शनाद् ज्योतिष्टोमादिकर्मफलानामपि भोक्तृप्रतिनियामकेन केनाऽपि भाव्यमिति तन्नियामकत्वेन नियतिः सिद्धा | कर्मणो नियामकत्वमस्तीति चेत् ? तन्न, तस्य फलजनन एव चरितार्थत्वादित्युक्तम् | ईश्वरशक्तेरपि तत्त्वान्तरव्यवधानेनैव भोगविषये कार्यकरत्वम्, अन्यथा सर्वतत्त्वाभावप्रसङ्गात् | किञ्च, चिरक्षिप्रादिप्रत्ययद्वारेण चिरं भुङ्क्ते इत्यादिभोग्याद्यवच्छेदकत्वेन कालः सिद्धः | स च न नैयायिकाद्यभ्युपगतवन्नित्यो भवितुमर्हति, भूतादिरूपत्वेनानेकत्वादचेतनत्वाच्च | तदुक्तं श्रीमम्मृगेन्द्रे- त्रुट्यादिप्रत्ययस्यार्थः कालो मायासमुद्भवः | कलयन्ना समुत्थानान्नियत्या नियतं पशुम् || (वि० १०|१४) इति || १०४ || इत्थं सूक्ष्मदेहात्मिकां तत्त्वसंहतिमुक्त्वा तस्याः प्रतिपुरुषं नियतत्वमाह- वसुधादिकलाप्रान्ता भोगसाधनसंहतिः || १०५ || नियता प्रतिभोक्तारं परिज्ञेया मनीषिभिः | तदुक्तं तत्त्वसंग्रहे- वसुधाद्यस्तत्त्वगणः प्रतिपुंनियतः कलान्तोऽयम् | पर्यटति कर्मवशतो भुवनजहेदेष्वयं च सर्वेषु || (श्लो० २४-२५) इति || १०५ || एकत्वे सूक्ष्मदेहस्य सर्वेषां दृश्यमानभोगभेदो न युक्त इत्याह- अन्यथा हि सुखादीनां दृष्टो भेदो न युज्यते || १०६ || नन्वेकत्वेऽपि सूक्ष्मदेहस्य कर्मभेदादेव तत्फलभोगभेदो भविष्यतीति चेत् ? तदयुक्तमित्याह- योक्ष्यते कर्मणो भेदात् तद्भेदो यदि योक्ष्यते | कर्मभेदादेव भोगभेदः सिद्ध्यति, सिद्धे च भोगभेदे कर्मभेदोऽनुमीयत इतीतरेतराश्रयदोषः प्रसक्त इत्यर्थः || ननु कर्तृभेदादेव सिद्धः कर्मभेदः, कर्मभेदाच्च भोगभेद इति नान्योन्याश्रयदोषः ? अत आह- सम्बन्धाद्युगपत् सा तु कुर्वन्ती कर्मकर्तृभिः || १०७ || कथं भिन्नानि कर्माणि कर्तृभेदात् करिष्यति | मलावृतत्वेनाऽऽत्मनां कलादिसूक्ष्मदेहादिसम्बन्धं विना कर्मकर्तृत्वाऽनुपपत्तेर्युगपत् सर्वकर्तृसम्बन्धेन कर्म कुर्वाणा सा सूक्ष्मदेहरूपा तत्त्वसंहतिरेकरूपा कथं भिन्नानि विचित्राणि कर्माणि करोति, नैवेत्यर्थः | ननु प्रतिपुरुषं चिकीर्षाभेदात् कर्मभेद इति चेत् ? तन्न, चिकीर्षायाश्च सूक्ष्मदेहसम्बन्धादेवोत्पत्तेः | तस्याश्चैकत्वाच्चिकीर्षाभेदोऽप्यनुपपन्न इति परिदृश्यमानभोगभेदान्यथाऽनुपपत्त्या प्रतिपुरुषं सूक्ष्मदेहभेदोऽवश्यमभ्युपगन्तव्यः || १०७ || नन्वात्मभेदे हि सूक्ष्मदेहभेदो युक्तः, स एव तावदेक इति वेदान्तविदस्तत्राऽऽह- आत्मनामप्यनेकत्वमत एव प्रतीयते || १०८ || एकत्वे ह्यात्मनः सुखदुःखादिवैचित्र्यं जन्ममरणवै-चित्र्यं चानुपपन्नमिति भोगवैचित्र्यादेवाऽऽत्मनानात्वसिद्धिः | एष चाद्वैतनिरासोऽस्माभिर्मृगेन्द्रवृत्तिदीपिकायां विस्तरेण दर्शितः || १०८ || अथ किमियं सूक्ष्मदेहरूपा तत्त्वसंहतिरात्मवद् व्यापिका, आहोस्विदव्यापिकेत्यत आह- तस्याश्चाविभुता सिद्धा युगपद् वृत्त्यसंभवात् | ज्ञानक्रियाभिव्यक्तिलक्षणस्य तत्कार्यस्य सर्वत्र युगपदनुत्पत्तेस्तस्याश्चाव्यापकत्वसिद्धिः || ननु यत्र सहकारिणा कर्मणा फलारम्भेण निर्देशो भवति, तत्रैवासावात्मनश्चैतन्याभिव्यक्तये विक्षोभमभिव्यञ्जनरूपं करोतीति तस्मादेवास्याः सर्वत्र युगपत्कार्यानुत्पत्तिर्नाव्यापकत्वा-दिति चेत्, तदप्ययुक्तम्, तस्याः कार्यत्वेनाऽनित्यत्वाद् घटादिवद् व्यापकत्वाऽसिद्धेरित्यभिप्रायेणाह- कर्मनिर्देशविक्षोभकरणत्वं च नोत्तरम् || १०९ || युगपद् वृत्त्यनुत्पत्तेः सर्वत्र विभुतैव न | अथ किमियमेकदेशे चैतन्याभिव्यक्तिः सूक्ष्मदेहव्यञ्ज-कस्याऽविभुत्वात्, उत व्यङ्ग्यस्याऽऽत्मनः ? इत्यत आह- विकारित्वादिधर्म्यात्मा विरोधश्च श्रुतेरणौ || ११० || अविभौ युगपच्चित्त्वव्यक्तिकालेऽप्यणुर्विभुः | यद्यव्यापक आत्मा स्यात्, तदा देशान्तरफलोपभोगोऽप्यनुप-पन्न इत्युक्तम् | किञ्च, तस्य मुक्त्यवस्थायां शिववत् सर्वज्ञत्वसर्वकर्तृकत्वश्रवणाद् व्यापकत्वमवश्यमभ्युपेयम् | अथ संसारावस्थायामव्यापकत्वं मुक्त्यवस्थायां च व्यापकत्वं तस्येष्यते, तदा परिणामित्वाचेतनत्वादिदोषप्रसङ्गः, ततो नित्यत्वव्यापकत्वादिश्रुतेर्विरोधः | तदुक्तं श्रीमन्मृगेन्द्रे- चैतन्यं दृक्क्रियारूपं तदस्त्यात्मनि सर्वदा | सर्वतश्च यतो मुक्तौ श्रूयते सर्वतोमुखम् || (वि० २|५) इति, नाव्यापको न क्षणिको नैको नापि जडात्मकः (वि० ६|७) इति च || ११० || इत्थं सूक्ष्मदेहात्मिकामसाधारणतत्त्वसृष्टिमुक्त्वा भुवनात्मिकां साधारणतत्त्वसृष्टिमाह- तत्त्वानामपरे स्कन्धा भोगिनो रतिभूमयः || १११ || सूक्ष्मदेहरूपाद् भोगादन्ये विचित्रभुवनाद्याकारास्तत्-त्वानां भोगाः संसारिणो भोगस्थानानीत्यर्थः || १११ || अतश्च- तज्जदेहप्रविष्टा सा तेषां तासु फलावहा | सूक्ष्मदेहात्मिका तत्त्वसंहतिराचारापेक्षया तासु भोगभूमिषु कर्मवशात् तत्तद्भुवनजदेहेषु प्रविष्टा सती पुरुषस्यैकदेशेन ज्ञानक्रियासामर्थ्यांशाभिव्यञ्जिका भवति | तदुक्तं तत्त्वसंग्रहे- पर्यटति कर्मवशतो भुवनजदेहेष्वयं च सर्वेषु (श्लो० २५) इति | श्रीमन्मृगेन्द्रेऽपि- इत्यातिवाहिकमिदं वपुरस्य जन्तोश्चित्सङ्गचिद्गहनगर्भविवर्ति लेशात् | नैतावताऽलमिति भौवनतत्त्वपङ्क्तिमाधारदेहविषयाऽभ्युदयाय वक्ष्ये || (वि० १२|३४) इति | तामेव भुवनसृष्टिं संक्षेपेण दर्शयति- निरयादिस्तु सत्यान्ता कालहाटकदेशिकैः || ११२ || आदिमध्यान्तसंरुद्धा भूतेषु स्थानपद्धतिः | तत्र कालः कालाग्निः | हाटकः पातालाधिपतिः | देशिकः समस्तशास्त्रोपदेशकत्वाल्लोकाचार्यः सत्यलोकोर्ध्वस्थितस्य विष्णुलोकस्याप्युपरि वर्तते | रुद्रलोके वर्तमानोऽनन्तशिष्यः श्रीकण्ठस्तस्यैव ब्रह्माण्डान्तरधिकारात् तैः कालहाटकदेशिकैः स्वस्वभुवनवर्तिष्वादिमध्यान्तेष्वधिष्ठिता नरकपातालभूरादिलोकात्मिका भुवनपद्धतिः स्थूलेषु ब्रह्माण्डान्तर्वर्तिषु स्थिता || ११२ || ततश्च- शतरुद्रविभुश्चापि सह पञ्चभिरष्टकैः || ११३ || मात्रासंभूतभूतेषु प्रोक्तभूतविधातृषु | तन्मात्रा चित्तवर्गेषु तत्र शतरुद्राणां ब्रह्माण्डधारकाणामधिष्ठाता वीरभद्रः पृथिवीतत्त्वे प्रागुक्तस्थूलपृथिवीकारणभूते तन्मात्राऽजन्ये सूक्ष्मपृथिवीतत्त्वे स्थितः | तथा स्थूलजलादि-कारणभूते तन्मात्राजन्ये एव सूक्ष्मजलादिभूतचतुष्टये | चित्तवर्गशब्देनान्तःकरणानामुपादानात् तन्मात्राद्यहङ्का-रान्ते चाऽध्वनि गुह्यातिगुह्यगुह्यतरपवित्रस्थाण्वाख्यानि पञ्चाष्टकानि भुवनानां स्थितानि | तदुक्तं श्रीमन्नन्दिकेश्वर-कारिकासु- ब्रह्मा स्थूलानि गतः सूक्ष्मादीन्याधारदेह-भोग्यार्थम् | रुद्रशतं क्षेत्रभुवां चत्वारिंशच्च सूक्ष्मभूतानि || तन्मात्रा मनोऽहङ्कृतिबुद्धिर्देवा गुणांस्तु योगिवराः | वामाद्या गुणसारं क्रोधाः प्रकृतिं कलां तु मण्डलिनः || इति || ११३ || अत एवाऽऽह- बुद्धौ च क्रमशो न्यसेत् || ११४ || पैशाचाद्यष्टकं विद्वान् गुणतत्त्वे कृतादिकम् | अप्राप्तगुणभावे तु विशुद्धे गुणमस्तके || ११५ || विकारे प्राकृते लीना वामादिस्थानमालिका | क्रोधेश्वर(अदि)रुद्राणां पुरपङ्क्तिः प्रधानगा || ११६ || वामदेवादयस्त्रयोदश रुद्राः क्रोधेशादिभिरष्टभिः सह प्रधानाऽधिपैर्गुणमस्तकभुवनेषु स्थिताः, प्रकृतेः सूक्ष्म- रूपत्वाद्भुवनाऽऽधारत्वाऽयोगादित्यागमविदः || ११४-११६ || तथा- मण्डलानि तु वामाष्टौ कलातत्त्वे स्थितानि तु | रागविद्यासहिते कलातत्त्वेऽष्टाष्टक्रमेणाष्टौ भुवनानां मण्डलानि स्थितानि | तदुक्तं श्रीमन्मृगेन्द्रे- रागविद्यागर्भे कलापदे | महापुरचतुष्षष्टिमण्डले मण्डलाधिपाः || (वि० १३|१५२) इति | कालनियत्योश्च भुवनद्वयं तत्रैवोक्तम्- नियतौ यन्ता काले कलनशक्तिमान् (वि० १३|१५०) इति | एष च भुवनाध्वा पद्धत्यादिषु बहुशो दृश्यत इति नात्र विस्तरेण प्रदर्शितः | तेषु चाऽवान्तरभुवनसंख्याभेदः केषुचित् केषाञ्चिदन्तर्भावादित्यविरोधः | इत्थं भुवनात्मिकामपि तत्त्वसृष्टिमुक्त्वा प्रोक्तस्य कलादिरूपस्य जगतः परमोपादानं मायां साधयति- जगद्बीजं महामाया जन्यशक्तिरचेतना || ११७ || तस्याः कलादिसंभूतिर्भोगिनां भोगभूतये | महती चासावनेकस्रोतोरूपस्वकार्यव्याप्तेर्माया च, मात्यस्यां प्रलये सर्वमशुद्धं जगदिति माया | सा च जगद्बीजं जगतः कलादिरूपस्य प्रतिपुरुषं भेदेनाऽनेकत्वाद्भुवनाऽऽ-धारत्वाच्च कार्यरूपस्य सर्वस्य साक्षात् परम्परया चोपादानम् | अत एव जन्यशक्तिः सूक्ष्मरूपस्वकार्यशक्तिसमाहाराऽऽत्मिका, सत्कार्यवादाऽभ्युपगमेन सर्वकार्याणां शक्तिरूपेण तत्राऽवस्थानात् | उपादानत्वादेव मृदादिवदचेतना च | ततस्तस्याः कलादिभोगसाधनसंभूतिरित्युक्तम् || ११७ || शक्तिसमाहारात्मकतामेवाऽस्याः प्रकटयति- अनेकाभिर्विचित्राभिः शक्तिभिः शक्तिमत्यसौ || ११८ || विचित्राऽनन्तकार्याणां दर्शनात् संप्रतीयते | विचित्राऽनन्तकार्योत्पत्तिदर्शनाद् विचित्रानन्तकार्यशक्तिसमाहारात्मिकाऽसौ ज्ञायते || ११८ || न त्वस्या एवाऽनेककार्यजनिकाऽनेकाः शक्तयः कल्प्याः, तस्याः स्वयं शक्तिरूपत्वाच्छक्तेश्च शक्त्यन्तरकल्पनाऽनुपपत्तेः, परमकारणत्वादेवाऽस्या नित्यत्वम्, अन्यथाऽनवस्थाप्रसङ्गादित्यभिप्रायेणाऽऽह- अचिद्वतामनेकत्वाद् विनाशित्वं सुनिश्चितम् || ११९ || नाऽनेका सा त्वतो नित्या माया यद्यप्यचेतना | किञ्च- व्यापिनी पुरुषाऽनन्त्याद् भोगाय कुरुते यतः || १२० || सर्वकार्याणि सर्वत्र स्रोतोभिर्विश्वधामभिः | तदुक्तं बृहस्पतिपादैः- अपि सर्वसिद्धवाचः क्षीयेरन् दीर्घकालमुद्गीर्णाः | मायायामानन्त्यान्नोच्यते स्रोतसां संख्या || इति | एषा च क्षीरदधिन्यायेन न सर्वात्मना परिणाममेति, किन्तु घृतकीटन्यायेनैकदेशेनेति मन्तव्यम् || १२० || सर्गस्थितिलयास्तस्याः स्वात्मसंस्थाः प्रकीर्तिताः || १२१ || स्वात्मसंस्थं विकारस्य तत्त्वादिभुवनाऽवधेः | एवं परमोपादानत्वान्मायास्था एव जगतः सर्गादयः, भुवनादेश्च विकारस्य तत्त्वादिस्वरूपं स्वात्मसंस्थमिति तत्त्वभावभूतभुवनात्मकं च समस्तं जगद् विकारस्थमेव ज्ञेयम् | ननु शुद्धरूपमपि तत्त्वादिकं तदुपादानं च बिन्दुसंज्ञमागमेषु श्रूयते, सत्यम्, तत्प्राप्तेर्विद्येश्वरादिपदप्राप्तिरूपत्वेनाऽपरमुक्तित्वान्नाऽ-त्राऽस्य भोगसाधनतयोपादानमित्यविरोधः || १२१ || अत्र च- सर्गस्थिती समाख्याते लयः सर्गविपर्ययात् || १२२ || प्रतितत्त्वमुत्पत्तिक्रमकथनेन व्यापारप्रदर्शनेन च सर्गस्थिती प्रोक्ते, लयस्तु सर्गप्रातिलोम्येन स्वस्वकारणेषूपसंहार इत्यर्थः || १२२ || एतच्च- भवस्यानादिमत्त्वाच्च सर्गादिगणनाच्युतम् | अनादिरयं संसार इत्यर्थः | ननु भोगसाधनत्वादात्मनां युक्ते सर्गस्थिती, लयस्तु किमर्थमीश्वरेण क्रियते | अत्र वदामः- अनवरतमनन्तपुरुषभोगजननोपचितशक्तेर्मायायाः सुकुमारवनिताया इव स्वापेन सामर्थ्योपोद्बलनार्थमात्मनां विश्रमार्थं च कर्मपाकार्थं च संहार इत्यदोषः | तदुक्तं श्रीमन्मृगेन्द्रे- तच्च सात्मकमाक्रम्य विश्रमायाऽवतिष्ठते | भविनां भवखिन्नानां सर्वभूतहितो यतः || स्वापेऽप्यास्ते बोधयन् बोधयोग्यान् रोध्यान् रुन्धन् पाचयन् कर्मिकर्म | मायाशक्तीर्व्यक्तियोग्याः प्रकुर्वन् पश्यन् सर्वं यद्यथा वस्तुजातम् || (वि० ४|१३-१५) इति | इत्थमात्मनः प्रतिपादितं ससाधनं भोगमुपसंहर्तुं तस्यैव मलात्मकं पाशमुपक्षेप्तुं चाह- पुंसां मायामयं भोग्यं मायोत्थैरेव साधनैः || १२३ || यतो भोक्ता विशुद्धात्मा चेतनस्तन्न चेतनम् | उक्तवत् सुखादिरूपं बुद्धिबोधात्मकं भोग्यं मायाकार्यमेव | न त्वात्मनि गुणत्वेन समवैति, चेतनत्वात्, तत्समवाये पुरुषस्य परिणामादिदोषप्रसङ्गाच्च | तस्य च चेतनः पुरुष एव भोक्तेत्युक्तम् | स च वक्ष्यमाणवदविशुद्धत्वादावृत- ज्ञानक्रियात्वान्मायोत्थैः कलादिभिस्तत्त्वैरुपबृंहित एव तद्भोक्तुं विना किञ्चिज्ज्ञत्वादेरप्यदर्शनात् || १२३ || अथ कुतोऽप्यमविशुद्धात्माऽत आह- विषयित्वमलच्छन्नसर्वज्ञानक्रियो यतः || १२४ || यतोऽयमात्मा शिववत् सर्वज्ञानक्रियायुक्तोऽपि किञ्चिद्विषये विज्ञानादौ कलादिकमपेक्षते | यतश्च मुक्तस्याऽभोक्तृत्वं सर्वविषयज्ञानादियुक्तत्वं श्रूयते, ततोऽयं विषयित्वाख्यभोक्तृत्वस्य हेतुत्वाद् विषयित्वाख्येन मलेनावृतोऽवसीयते | यच्छ्रूयते- भोक्तृत्वं मलतः प्रोक्तम् इति | अत एवाऽयमविशुद्धः | तदुक्तं श्रीमत्स्वायंभुवे- यद्यशुद्धिर्नपुंसोऽस्ति सक्तिर्भोगेषु किंकृता (३३|४) इति || १२४ || अतश्च- बीजस्थकर्मरागेण मायामेषोऽनुधावति | कर्मणः कृष्यादिवदात्मसंस्कारत्वाऽयोगात् | भवावस्थायां बुद्धिगतेन प्रलये नष्टबुद्धेरपि मायात्मनि जगद्बीजे प्रतिसंचारात् तत्स्थेन परिपाकवशाद् भोगजनकेन कर्मात्मना रागेण मार्गेण मायां भोगसाधनादिरूपेण परिणतामेष पुमाननुसरति || अत्र परः- भवान्तरकृतं कर्म जात्यादिफलदं नृणाम् || १२५ || अशुद्धिः कल्पिता पुंसस्तस्मिन् सत्यतिरिच्यते | अनादित्वेन बीजाङ्कुरन्यायेन कार्यशरीरबन्धस्यावस्थितेर्जात्यायुर्भोगप्रदानि कर्माण्येव स्वफलभोगार्थमात्मनः शरीरयोगं कुर्वन्तु, किं मलेन | भवताऽपि हि तं मलं कल्पयित्वा भोगवैचित्र्यान्यथानुपपत्त्या कर्माऽपि कल्प्यते, ततः कल्पनागौरवप्रसङ्गात् कर्मैव कल्प्यताम् | यदाहुः- कल्प्यं पुनर्निरुणद्धि कल्पनाम् इति || १२५ || अत्र परिहारः- जन्मादिजनिका शक्तिः कर्मणो न मलं विना || १२६ || अणुरज्ञानरहितः क्वचिज्जातो न दृश्यते | अज्ञानहेतुना मलेन रहितस्य मुक्तात्मनो जन्मादर्शनात् कर्मानुष्ठानादर्शनाच्च मलयुक्तस्यैव कर्मार्जनं तद्भोगो वा उपयुज्यते || १२६ || यद्येवं मलस्यैव जन्मादिहेतुत्वमस्तु, किं कर्मणेति चोदयति- विषयित्वं हि तस्यैकमस्तु किं तेन कर्मणा || १२७ || यतो जन्मादिसंबन्धमनुसंप्राप्नुयाद् ध्रुवम् | परिहरति- सन्ति केवलिनो ज्ञानग्रस्ताः कर्मविनाकृताः || १२८ || न च जन्मादिसंबन्धो द्वयं तेनेह कारणम् | विज्ञानकेवलिनां मलावृतानामपि कर्मरहितानां जन्माद्यदर्शनाद् द्वयमपि मायायोगे हेतुरित्यर्थः || १२८ || ननु सृष्टेः प्राग् निष्कलत्वाच्चेतनत्वाच्चात्मनः शिववदज्ञत्वं न युज्यत इति पराशङ्कां निरस्यति- प्राक्सृष्टेर्निष्कलो जन्तुर्दृक्कृयागुणवान् यतः || १२९ || ततश्चाज्ञानसम्बन्धो नायमित्यनृतं वचः | यद्येवं शिववदेव कलासम्बन्धोऽप्यस्य न युज्यते, ततश्च कलासम्बन्धाऽन्यथाऽनुपपत्त्या तस्य मलोऽभ्युपगन्तव्य इत्यर्थः || १२९ || एतदेवाह- दृक्क्रिये सर्वविषये सर्वगत्वादणोर्मते || १३० || सर्वज्ञः सर्वकृत् तस्मात् सुतृप्तः कारणं विना | नचैतदेवं किञ्चिज्ज्ञत्वादावपि कलाद्यपेक्षित्वादित्याह- कलादिव्यञ्जकाभावान्न व्यक्ते तस्य दृक्क्रिये || १३१ || न चैतदनावरणस्य युज्यत इत्याह- नह्यनावरणं तेजो भानोर्व्यञ्जकमीक्षते | अतश्च- अनाद्यनादिसम्बन्धो मलः साधारणोऽक्षयः || १३२ || अनादिश्चासावात्मनामनादिसंबन्धश्चानाद्यावारकः सर्वपुरुषाणामेक एव | अत एव नित्यश्च मलोऽभ्युपगन्तव्यः || १३२ || यद्येवं मलस्य नित्यत्वात् कदाचिदप्यात्मभ्यो न निवृत्तिः, निवृत्तौ वा तस्यैकत्वादेदपुरुषमोक्षकाले सर्वमोक्षप्रसङ्गोऽत आह- प्रतिपुंनियतः स्वस्वकालव्यावृत्तशक्तिकः | मलस्य प्रत्यात्मनियतानन्तशक्तियुक्तत्वादेकस्याः शक्तेः परिणामवशान्निरोधे कृते तस्यैव मोक्षो नान्यस्य | यच्छ्रूयते प्रत्यात्मस्थस्वकालान्तापायिशक्तिसमूहवत् (मृ० वि० ७\८) इति || ननु प्राकृत एव विपर्ययरूपो महामोहाख्यो मलोऽस्तु, तस्यास्तत एव व्यञ्जकापेक्षा कर्मानुष्ठानं चोपपद्यते, अत आह- महामोहोद्भवात् पूर्वमणुरेष निरञ्जनः || १३३ || न शक्योज्झयितुं तेनासंवृतः शर्ववत् स्वयम् | महामोहस्य कलादिसम्बन्धोत्तरकालभावित्वात् प्रथमतः सर्गारम्भे भवत्पक्षे निर्मलत्वेन शिववदनावृतः पुमांस्तेन प्राकृतमलेनोज्झयितुं न शक्यते | अतोऽनादिना मलेनात्मनोऽनादिसंबन्धोऽभ्युपगन्तव्यः || १३३ || अन्यथा तु- आदिमान् यदि सम्बन्ध इष्टः पुंमलयोर्बुधाः || १३४ || तस्यापि कारणं वाच्यमिति नास्ति व्यवस्थितिः | अथ निर्हेतुको योगः कलायोगोऽप्यहेतुकः || १३५ || अनिर्मोक्षश्च जन्तूनामीशाभावश्च जायते | निर्हेतुकस्य पाशसंसर्गस्याभ्युपगमे शरीरादियोगस्याऽपि निर्हेतुकत्वानमुक्तस्यापि पुनः संसारयोगादनिर्मोक्षः | शिवस्याऽपि पाशसंसर्गादिनीश्वरत्वं प्रसज्यते | अतोऽनादिरेव मलसम्बन्धः पशोः संसारहेतुरभुपेयः || १३४-१३५ || एव मलस्याऽसाधारणत्वे प्रतिपुरुषमनेकत्वेऽभ्युपगम्यमाने जडत्वे सत्यनेकत्वाद् घटादिवदनित्यत्वप्रसङ्गः, ततश्चानादित्वाभावात् प्रागुक्योऽनवस्थानानिर्मोक्षादिदोषः स्यादित्याह- असामान्यो यदि भवेदचैतन्ये त्वनेकतः | उत्पादवान् विनाशी च ततः पूर्वोक्तदोषभाक् | अनादित्वादेव चास्य नान्तवत्त्वं तद्योगे वा सर्वानित्यत्वप्रसङ्ग इत्याह- अनाद्यनादिसम्बन्धो यदि चेष्टो विनश्वरः || १३७ || मायाशिवात्मवस्तूनामजानां नाश इष्यतम् | इत्थं प्राक् प्रतिज्ञातं मलस्यानादित्वं साधारणत्वमक्षयत्वं च प्रसाध्यानन्तशक्तियुक्तत्वमपि साधयति- प्रतिपुंनियताश्चास्य शक्तयो गुणरोधिकाः || १३८ || आत्मगुणस्य ज्ञानक्रियात्मनो रोधिकाः | एतच्च प्रागेव दर्शितम् || १३८ || परिदृश्यमान भोगवैचित्र्यान्यथाऽनुपपत्त्या तासां मलशक्तीनां परिणामकाले वैचित्र्यं सिद्धमित्याह- न कालनियतिस्तासां विनिवृत्त्यै निरोधतः | अन्यथा युगपन्मुक्तिः सर्वेषां चिद्वतां भवेत् || १३९ || न च सा दृश्यते तस्माज्ज्ञेयास्ताः सूक्ष्मलक्षणाः | एवं चानाद्यावारकत्वान्मल एवाऽत्मनः सहजः पाशः | मायादयस्तु- तद्भावभाविनो भावाः सर्वेमायात्मकाः पशोः इत्यादिश्रीमत्स्वायम्भुवादिश्रुतेरागन्तुका एव ज्ञेयाः || १३९ || ननु श्रीमन्मतङ्गादौ तु मोहो मदश्च रागश्च विषादः शोष----- (वि० ६ |१०३) इत्यादिना मोहादीनामपि मलहेतुत्वं सहजमलत्वं च श्रूयते | अत आह- वृत्तयो विषयित्वस्य मदाद्याः पञ्च नोचिताः || १४० || निष्कलात्मनि तस्यैते नो दृष्टा जातुचिद् यतः | यतो विज्ञानाकलप्रलयाकलयोः कलादिसम्बन्धरहिततया मले सत्यपि वक्ष्यमाणमदादयो न दृश्यन्ते, किन्तु सकल एव, अतो न मलस्यैते ज्ञानक्रियावरणवद् वृत्तित्वेनेष्टाः | श्रीमन्मतङ्गादौ तु मलसद्भाव एव मायोपादानानामनात्मादावात्माभिमानादिरूपाणामेषां मदादीनामुत्पद्यमानत्वात् कलादियोगेऽपि निर्मलानां मायागर्भादिकार्यादीनां तददर्शनाच्च तेन मलेन सहकारिणा जायन्त इति सहजमलहेतुत्वात् सहजशब्देनोच्यन्ते, न तु मलोपादानतयेत्यविरोधः || १४० || ननु मलोपादाना अप्येते प्रलयकेवलावस्थायामनभिव्यक्ताः पश्चात् कलादिसम्बन्धादभिव्यज्यन्त इत्यस्य पक्षस्य को दोषः ? अत आह- भोगसाधनसम्बन्धाद् व्यज्यन्त इति नोचितम् || १४१ || त्वया तु गुणवृत्तिभ्यो ये प्रोक्ता भिन्नलक्षणाः | भवता(न्तु) गुणवृत्तिभ्यो भेदेनैव मदादयः || १४२ || प्रोक्ता इति | न तेषां भोगसाधनसम्बन्धात् पश्चादभिव्यक्तिरुत्पद्यते | एतदुक्तं भवति मदादीनां हि मलोपादानत्वेऽभ्युपगम्यमाने तस्य सर्वदैकरूपत्वादभिव्यक्त्यनभिव्यक्तिभेदानुत्पत्तेस्तत्कार्यभूत-ज्ञानक्रियावरणवत् संहारावस्थायामप्युपलभ्येरन्, न चोपलभ्यन्ते | अपि तु भोगसाधनसम्बन्धोत्तरकालमन्तः करणसंस्था एव पुंसामुपलभ्यन्ते, अतो मलेन सहकारिणा मायोद्भूतगुणोपादाना एव तेऽभ्युपगन्तव्या इति || १४१-१४२ || अथैषां गुणात्मकत्वमेव दर्शयति | मदमोहावभिष्वङ्गः परितापभ्रमौ च यौ | तामसौ सात्त्विकश्चैव राजसौ च यथाक्रमम् || १४३ || एवं च- अन्तःकरणसंस्थानां गुणानां वृत्तयस्त्विमाः | न चैतद्व्यतिरिक्ताः काश्चिन्मलस्य वृत्तयो मदादिसंज्ञाः कस्याञ्चिदवस्थायामात्मनि दृश्यन्ते | ततो न सन्त्येव ता इत्याह- आभ्यो भिन्ना न मूलस्य वृत्तयोऽतो न सन्ति ताः || १४४ || अतश्च- त्यक्त्वा निरोधिकाः शक्तीर्नान्यो धर्मोऽस्य विद्यते | कर्माशयसमेतस्य हेतुत्वं च भवेद् भवे || १४५ || केवलमलस्य ज्ञानक्रियावारकत्वं कर्मसंस्कारयुक्तस्य संसारहेतुत्वं च युक्तिसिद्धम् | नान्यत् कार्यान्तरमित्यर्थः || १४५ || इत्थं मलस्वरूपमपि प्रदर्श्योपसंहरति पशुरित्थं समाख्यातो यत्सम्बन्धादणुः पशुः | पशुशब्दो मलवाचकतया श्रीमद्रौरवादौ दृश्यते | तस्य च न तत्त्वान्तरता, अपि तु पशुतत्त्व एवान्तर्भावः, तेन विनाऽऽत्मनां पशुत्वाऽयोगात्, तेनानाद्यावृतत्वाच्च | किञ्च, विधौ सृष्टिकाले शिवस्य सृष्ट्यादिकरणपूर्वमात्मनां भोगभोजनात्मकः, मायायाश्च भोगसाधनकलाद्युत्पादनतत्पोषणात्मकः, पश्वात्मनां च भोग्यभोगरूपो व्यापारोऽस्मिन् प्रकरणे प्रोक्तः | एते चैषां व्यापारा आत्मावारकमलादेव हेतुभूताद् भवन्ति, मलसद्भाव एवाऽस्य सर्वस्य प्रवृत्तेरिति | अपि च, मदादयश्च क्लेशाः पुंसामत्रैव प्रदर्शिता इत्युपसंहरन् अधिकारभेदात् तेषां वृत्तिभेदानाह- प्रसुप्ता तत्त्वलीनानां तटरुद्धाश्च योगिनाम् | विचित्रोदाररूपाश्च क्लेशा विषयसङ्गिनाम् || १४६ || समाप्तेयं भोगकारिका || मायातत्त्वलीनानां प्रलयाकलानामेते क्लेशा गुणादीनामपि तत्त्वानां तत्रैवोपसंहारात् प्रसुप्ता अकिञ्चित्करा आसते | योगिनां त्वभिव्यक्ता अपि योगबलान्मध्ये निरुद्धव्यापारा भवन्ति | विषयसङ्गिनां तु सकलानां पशूनामुद्भूतविविधस्वव्यापारा भवन्ति | विच्छिन्नोदाररूपा इति पाठे परस्परमुद्भवाभिभवाभ्यां कदाचिद्विच्छिन्नरूपाः कदाचिच्चोदाररूपाश्च भवन्तीत्यर्थः | इत्थं प्राक् प्रतिज्ञातयोः ससाधनयोर्भोगमोक्षयोः ससाधनो भोगस्तावदेताभिः प्रदर्शित इत्यत्रैव भोगप्रकरणोपसंहारः | मोक्षस्तु ससाधनः प्रकरणान्तरे प्रदर्शयिष्यत इति शुभम् || १४६ || श्रीमत्खेटकनन्दनेन गुरुणा सिद्धान्तसिद्धः स्फुटं संक्षेपादिति कारिकाभिरुदितो भोगः समं साधनैः | वाचस्तस्य समीक्ष्य वीततपसाऽघोरादिना शम्भुना लेशाद् देशिककुञ्जरेण विवृतिस्तासामियं निर्मिता || इत्यघोरशिवाचार्यविरचिता भोगकारिकावृत्तिः सम्पूर्णा || ########### END OF FILE #######